________________
श्रीजम्बू
द्वीपशान्तिचन्द्रीया प्रतिः
॥१४॥
कल्याणकमाह-'अभिसिंचित्ता'इत्यादि, अभिषिच्य त्र्यशीतिं पूर्वलक्षाणि महान् रागो-लौल्यं यत्र स चासौ वासश्च
२वक्षस्कारे महारागवासो-गृहवासस्तन्मध्ये वसति गृहिपर्याये तिष्ठतीत्यर्थः, यद्यपि प्रागुक्तव्याधिप्रतीकारन्यायेनैव तीर्थकृतांगृहवासे
श्रीऋषमप्रवर्त्तनं तथापि सामान्यतः स यथोक्त एवेति न दोषः, यद्वा महान् अरागः-अलौल्यं यत्र स चासौ वासश्चेति योजनीयं, दीक्षा यतो भगवदपेक्षया स एवंविध एवेति, एतेन 'तेवहि पुवसयसहस्साई महारायवासमझे वसईत्ति पूर्वग्रन्थविरोधो नेति, उषित्वा 'जे से'त्ति यः सः 'गिम्हाणं'ति आर्षे ग्रीष्मशब्दः स्त्रीलिङ्गो बहुवचनान्तश्च ततो ग्रीष्मस्येत्यर्थः, प्रथमों मासः, यथा ग्रीष्माणां-अवयवे समुदायोपचाराद् ग्रीष्मकालमासानां मध्ये प्रथमो मास: प्रथमः पक्षश्चैत्रबहुल:-चैबान्धकारपक्षस्तस्य नवम्यास्तिथेः पक्षो-ग्रहो यस्य, तिथिमेलपातादिषु तथा दर्शनात्, तिथिपाते तत्कृत्यस्याष्टम्यामेव क्रियमाणत्वात् , स नवमीपक्षः-अष्टमीदिवसस्तत्र, अनेन व्याख्यानेन 'चित्तबहुलट्ठमीए' इत्याद्यागमविरोधो न, वाचनान्तरेण वा नवमीपक्षो-नवमीदिवसः दिवसस्याष्टमीदिवसस्य मध्यंदिनादुत्तरकाले यद्यपि दिवसशब्दस्याहोरात्रवाच-10 | कत्वमन्यत्र प्रसिद्धं तथाऽप्यत्र प्रस्तावादिवसो गतो रजनिरजनि इत्यादिवत् सूर्यचारविशिष्टकालविशेषग्रहणं, अन्यथा |
, 'तेसीइंपुब्वे त्यादि, त्र्यशीतिपूर्वशतसहस्राणि महाराजवासमध्ये महाराजतया यो बासस्तस्य मध्ये तदंतरित्यर्थः वसति, न चैवं 'उसमे गं अरहा कोसलिए | वीसं पुव्वसयसहस्साई कुमारवासमझे बसइ २ ता तेवढेि पुव्वसयसहस्साई महारायवासमझे वसइत्ति अत्रैवानंतरोक्तसूत्रेण सह विरोधः शंकनीयः, यतो ॥१४॥ 'भाविनि भूतबदुपचार' इति न्यायात् राज्याईकुमारराजवत् कुमारावस्थाऽपि महाराजावस्यैवेति विवक्षया सर्वापि गृहस्थावस्था महाराजावस्यैव भणिता । (इति ही वृत्तौ)
Sear
Jain Education
a
l
For Private
Person Use Only
rawjainelibrary.org