________________
200202aawaee0000000
प्रवृत्तिरफि सर्वत्र परार्थत्वव्याप्ता बहुगुणाल्पदोषकार्यकारणविचारणापूर्विकैवेति, युगादौ जगद्व्यवस्था प्रथमेनैव पार्थिवेन विधेयेति जीतमपीति, स्थानाङ्गपञ्चमाध्ययनेऽपि-"धम्मंणं चरमाणस्स पंच णिस्साठाणा पण्णता, तंजहा-छक्काचा १ गणो २ राया ३ गाहावई ४ सरीर ५' मित्याद्यालापकवृत्तौ राज्ञो निनामाश्रित्य राजा-नरपतिस्तस्य धर्मसहा| यकत्वं दुष्टेभ्यः साधुरक्षणादित्युक्तमस्तीति परमकरुणापरीतचेतसः परमधर्मप्रवर्तकस्य ज्ञानत्रययुतस्य भगवतो राजधर्मप्रवर्तकत्वे न काप्यनौचिती चेतसि चिन्तनीया, युक्त्युपपन्नत्वात् , तद्विस्तरस्तु जिनभवनपंचाशकसूत्रवृत्त्योर्यतनाद्वारे व्यक्त्या दर्शितोऽस्तीति तत एवावसेयो, ग्रन्थगौरवभयादत्र न लिख्यते इति, एतेन 'राज्यं हि नरकान्तं स्याद्, यदि राजा न धार्मिकः' इत्युक्तिरपि दृढबद्धमूला न कम्पत इति, किञ्च-अत्र तृतीयारकप्रान्ते राज्यस्थित्युत्पादे धर्मस्थित्युत्पादः पञ्चमारकमान्ते च 'सुअसूरिसंघधम्मो पुषण्हे छिजिही अगणि सायं । निवविमलवाहणे सुहुममंतिनयधम्म मज्झण्हे ॥१॥[श्रुतसूरिसंघधर्माः पूर्वाण्हे छेत्स्यन्ति सायमग्निः। नृपो विमलवाहनः सूक्ष्मो मन्त्री नयधर्मश्च मध्यान्हे ॥१॥] इति वचनात् धर्मास्थितिविच्छेदे राज्यस्थितिविच्छेद इत्यपि राज्यस्थितेधर्मस्थितिहेतुत्वाभिव्यञ्जकत्वमेवेति सर्व सुस्थमित्यलं विस्तरेणेति। तदनु भगवान् किं चक्रे इत्याह-'उवदिसित्ता पुत्तसय मित्यादि, उपदिश्य कलादिकं पुत्रशतंभरतवाहुबलिप्रमुखं कोसलातक्षशिलादिराज्यशते अभिषिञ्चति-स्थापयति, अत्र शक्वादिप्रभञ्जनावसानानि भरताटनवतिभ्रातृनामानि अन्तर्वाच्यादिषु सुप्रसिद्धानीति च लिखितावि, देशनामानि तु बहून्यप्रतीवानीति। अथ भगवतो दीक्षा
Excecececenesese
se
Jain Education in
a
For Privates Personal use Only
naw.jainelibrary.org