________________
seseseseeeeeeeseseseseene
च ऋषभो वृषभो वेति नाम्ना, कोशलायां-अयोध्यायां भवः कौशलिकः 'भाविनि भूतवदुपचार' इति न्यायादेतद्विशेषणं, अयोध्यास्थापनाया ऋषभदेवराज्यस्थापनासमये कृतत्वात् , तद्व्यक्तिस्तु भरतक्षेत्रनामान्वर्थकथनावसरे 'धणवईमतिनिम्माया' एतत्सूत्रव्याख्यायां दर्शयिष्यते, अर्हन्तश्च पार्श्वनाथादय इव केचिदनङ्गीकृतराजधर्मका अपि स्युरित्यसौ केन क्रमेणाहन्नभूदित्याह-प्रथमो राजा, इहावसर्पिण्यां नाभिकुलकरादिष्टयुग्मिमनुजैः शक्रेण च प्रथममभिषिक्तत्वात् , प्रथमजिनः प्रथमो रागादीनां जेता, यद्वा प्रथमो मनःपर्यवज्ञानी राज्यत्यागादनन्तरं द्रव्यतो भावतश्च साधुपदवर्तित्वे, अत्रावसर्पिण्यामस्यैव भगवतः प्रथमतस्तद्भवनात् , जिनत्वं चावधिमनःपर्यवकेवलज्ञानिनां स्थानाङ्गे सुप्रसिद्धं, अवधिजिनत्वे तु व्याख्यायमानेऽक्रमबद्धं सूत्रमिति, केवलिजिनत्वे चोत्तरग्रन्थेन सह पौनरुक्त्यमिति व्याख्यानासङ्गतिः श्रोतॄणां प्रतिभासेत, प्रथमकेवली-आद्यसर्वज्ञः, केवलित्वे च तीर्थकृन्नामोदयतीत्याह-प्रथमतीर्थकरः-आद्यश्चतुर्वर्णसङ्घस्थापकः, उदिततीर्थकृन्नामा च कीदृशः स्यादिति-प्रथमो धर्मवरो-धर्मप्रधानश्चक्रवर्ती, यथा चक्रवर्ती सर्वत्राप्रतिहतवीर्येण चक्रेण वर्तते तथाऽयमपीति भावः, समुदपद्यत-समुत्पन्नवानित्यर्थः, अथ यथा भगवान् वयः प्रतिपन्नवान् तथाऽऽह-'तए ण'मित्यादि, ततो जन्मकल्याणकानन्तरमित्यर्थः, ऋषभोऽर्हन कौशलिकः विंशति पूर्वशत| सहस्राणि-पूर्वलक्षाणि भावप्रधानत्वानिर्देशस्य कुमारत्वेन-अकृताभिषेकराजसुतत्वेन वासः-अवस्थानं तन्मध्ये वसति, 'कुमारवासमज्झावसई' इति पाठे तु कुमारवासमध्यावसति आश्रयतीत्यर्थः, उपित्वा च त्रिषष्टिपूर्वलक्षाणि अत्रापि
Jan Education
! IAll
For Private Persone Use Only
w
.jainelibrary.org