________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥१३६॥
Jain Education!
भावप्रधानो निर्देश इति महाराजत्वेन - साम्राज्येन वासः - अवस्थानं तन्मध्ये वसति, तत्र वसंश्च कथं प्रजा उपचक्रे इत्याह- ' तेवट्ठि' इत्यादि, त्रिषष्टिं पूर्वलक्षाणि यावत् महाराजवासमध्ये वसन् लिपिविधानादिका गणितं - अङ्कविद्या धर्मकर्मव्यवस्थितौ बहूपकारित्वात् प्रधाना यासु ताः शकुनरुतं - पक्षिभाषितं पर्यवसाने - प्रान्ते यासां तास्तथा, द्वासप्तति| कलाः, कलनानि कला विज्ञानानीत्यर्थस्ताः कलनीयभेदात् द्वासप्ततिः अर्थात्, प्रायः पुरुषोपयोगिनीः, चतुःषष्टिं महिलागुणान् - स्त्रीगुणान्, कर्म्मणां - जीवनोपायानां मध्ये शिल्पशतं च विज्ञानशतं च कुम्भकारशिल्पादिकं त्रीण्यप्येतानि वस्तूनि प्रजाहिताय - लोकोपकारायोपदिशति, अपिशब्द एकोपदेशकपुरुषतासूचनार्थः, वर्त्तमान निर्देशश्चात्र सर्वेषामाद्यतीर्थङ्कराणामयमेवोपदेशविधिरिति ज्ञापनार्थं, यद्यपि कृषिवाणिज्यादयो बहवो जीवनोपायास्तथापि ते पश्चात्काले प्रादु| र्बभूवुः भगवता तु शिल्पशतमेवोपदिष्टं अत एवाचार्योपदेशजं शिल्पमनाचार्योपदेशजं तु कर्मेति शिल्पकर्म्मणोर्विशेष| मामनन्तीति, श्रीहेमसूरिकृतादिदेवचरित्रे तु - 'तृणहारकाष्ठहार कृषिवाणिज्यकान्यपि । कर्माण्यासूत्रयामास, लोकानां जीविताकृते ॥ १ ॥ इत्युक्तमस्ति तदाशयेन तु कर्म्मणामित्यत्र द्वितीयार्थे षष्ठी ज्ञेया, तथा च कर्माणि जघन्यमध्यमोत्कृष्टभेदतस्त्रीण्यप्युपदिशतीत्यपि व्याख्येयं शिल्पशतं च पृथगेवोपदिशतीति ज्ञेयमिति, अथात्र सूत्रे सङ्क्षेपतः प्रोक्ता विस्तरतस्तु श्रीराजप्रश्नीयादिसूत्रादर्शेषु दृश्यमाना द्वासष्ठतिकलास्तत्पाठोपदर्शनपूर्वकं वित्रियन्ते, यथा- "लेहं १ मणिअं २ रूवं ३ नई ४ गीअं ५ वाइअं ६ सरगयं ७ पोक्खरगयं ८ समतालं ९ जूअं १० जणवायं ११ पासयं १२
For Private & Personal Use Only
२वक्षस्कारे कलादि ऋ षभदीक्षाच
सू. ३०
॥१३६॥
www.jainelibrary.org