________________
Eeeeeeeeeeeeeeee
मणुआ हकारेणं दंडेणं हया समाणा लजिआ विलजिआ वेड्डा भीआ तुसिणीआ विणओणया चिटुंति, तत्थ णं खेमंधर ६ विमलवाहण ७ चक्खुमं ८ जसमं ९ अभिचंदाणं १० एतेसि णं पंचण्हं कुलगराणं मकारे णाम दंडणीई होत्या, ते णं मणुआ मक्कारेणं दंडेणं या समाणा जाव चिहृति, तत्थ णं चंदाभ ११ पसेणइ १२ मरुदेव १३ णाभि १४ उसभाणं १५ एतेसि णं पंचण्हं कुलगराणं धिक्कारे णाम दंडणीइ होत्था, ते णं मणुआ धिक्कारेणं दंडेणं हया समाणा जाव चिट्ठति ( सूत्रं २९) • 'तत्थ णमित्यादि, तेषु पञ्चदशसु कुलकरेषु मध्ये सुमतिप्रतिश्रुतिसीमंकरसीमन्धरक्षेमङ्कराणामेतेषां पञ्चानां कुलकराणां हा इत्यधिक्षेपार्थकः शब्दस्तस्य करणं हाकारो नाम दण्डः-अपराधिनामनुशासनं तत्र नीतिः-न्यायोsभवत् , अत्रायं सम्प्रदायः-पुरा तृतीयारान्ते कालदोषेण व्रतभ्रष्टानामिव यतीनां कल्पद्रुमाणां मन्दायमानेषु स्वदेहावयवेष्विव तेषु मिथुनानां जायमाने ममत्वेऽन्यस्वीकृतं तमन्यस्मिन् गृह्णाति परस्परं जायमाने विवादे सदृशजनकृतपराभवमसहिष्णवः आत्माधिकं सुमतिं स्वामितया ते चक्रुः, स च तेषां तान् विभज्य स्थविरो गोत्रिणां द्रव्यमिव | ददौ, यो यः स्थितिमतिचक्राम तच्छासनाय जातिस्मृत्या नीतिज्ञत्वेन हाकारदण्डनीति चकार, तां च प्रतिश्रुत्यादयश्चत्वारोऽनुचक्रुरिति, तया च ते कीदृशा अभवन्नित्याह-'ते णमित्यादि, ते मनुजा णमिति प्राग्वत् , हाकारेण दण्डेन हताः सन्तो लजिताः ब्रीडिता व्यर्द्धाः-लज्जाप्रकर्षवन्त इत्यर्थः, एते त्रयोऽपि पर्यायशब्दा लजाप्रकृष्टतावचनायोकाः भीता-व्यक्तं तूष्णीका-मौनभाजो विनयावनता न तृल्लण्ठा इव निस्त्रपा निर्भया जल्पाका अहंयवश्च तिष्ठन्ति,
Kescececemeneweatheeeeeeeee
Jan Education
For Private Persone
INE
Only
Suw.jainelibrary.org