________________
श्रीजम्बू. २३
Jain Education In
नामैतत् पुण्यपुरुषाणामधिकाधिकवंश्यपुरुषवर्णनस्य न्याय्यत्वात् परं पल्योपमाष्टभागावशिष्टतावचनं कालस्य सुतरां बाधते अनुपपत्तेः, तथाहि - पल्योपमं किलासत्कल्पनया चत्वारिंशद्भागं परिकल्प्यते, तस्याष्टमो भागश्चत्वारिंशद्भागाः पञ्च, तत्राप्याद्यस्य विमलवाहनस्यायुः पल्योपमदशभागस्ततश्चत्वारश्चत्वारिंशद्भागास्तदायुषि गताः, शेष एकः पल्यो| पमस्य चत्वारिंशत्तमः सङ्ख्येयो भागोऽवतिष्ठते, स चक्षुष्मदादीनामसंख्येयपूर्वैर्नाभेः सङ्ख्येयपूर्वैः श्रीऋषभस्वामिन
१ चक्म २ जसमं ३ चठत्थमभिचंदे ४ । ततो पसेणई ५ पुण मरुदेवे ६ चैव नाभी ७ अ ॥ १ ॥ त्ति, इह तु श्रीऋषभदेवसंयुक्ताः पंचदश भणिताः तेष्वप्यभिचंद्रप्रसेनजितोरंतराले चन्द्राभो भणितः एवं च सति कथमन्योन्यं संगतिरिति चेत्, सलं, कुलकरा हि द्विविधा भवंति, कुलकरकृत्येषु नियुक्ताः स्वतन्त्रप्रवृत्ताब, तत्र ये बिमलवाहनादयो नियुक्तास्ते स्थानांगादौ भणिताः, इह कुलकरकृत्यं कुर्वन्तः कुलकरा भवन्त्येव इयभिप्रायेणोभयेऽप्युपात्ताः, यदुक्तं विशेषणवयां - "सत्त य सत्तमठाणाइएस दस कुलगरा दसमठाणे । पण्णत्तीए भणिआ पण्णरस जंबुद्दीवस्स ॥ १ ॥ सप्तग्गहणेण जे विमलवाहणाई परेण से ण संगहिआ । अणिओत्ति द्विअ ते कुलगरतणं जेण कयवंतो ॥ २ ॥ पण्णरस कुलगरत्तणसामण्णाओत्ति तेऽवि संगहिआ । जत्थ दसहं सत्तगमणिउत्तं तत्थ तिगमाहु ॥ ३ ॥” इति यद्यप्येवं संगतिः श्रीजिनभद्रगणिक्षमाश्रमणैरभिहिता, परं परमार्थचिन्तायामेतदभिप्रायः सम्यग् नावसीयते, यतो दंडनीतावसंग तेस्तादवस्थ्यमेव, तथाहि-- बिमलवाहनचक्षुष्मतोः काळे हेतिरूपा दंडनीतिः १ यशस्विअभिचंद्रयोः कालेऽल्पापराधिनां हेतिरूपा तदितरेषां तु मेतिरूपा दंडनीतिः २ प्रसेनजिन्मरुदेवनाभीनां कालेऽल्पापराधिनां हाकाररूपा मध्यापराधिनां मकाररूपा उत्कृष्टापराधिनां च धिकाररूपा दंडनीतिः ३ श्रीस्थानांगसूत्रादौ भणिता, इह तु बिमलवाहनकाले हकारम काररूपं नीतिद्वयं वक्ष्यति तथात्राभिचंद्रादनु चंद्राभः प्रोक्तः, स्थानांगादौ तु तन्नामापि नास्ति, तथा श्रीस्थानांगे सप्तमस्थान केऽतीतानागतयो रत्सर्पिण्योः सप्त कुलकरा भणिताः, दशमस्थानके च दश, तत्र नानामप्यसंगतिरित्यादि बहु विचार्यमस्त्यतोऽसंगतिहेतुर्वाचनामेद एव स च शीर्षप्रहेलिकापर्यंत संख्याव्याख्यावसरे प्रदर्शितः । ( इति ही ० वृत्ती )
For Private & Personal Use Only
www.jainelibrary.org