________________
-
eeeeeeeeeeeeeee
भिर्भागे यदागतं तदेकैकस्य भागस्य प्रमाणं, तच्चेद-षट्षष्टिः कोटिलक्षाणां षट्षष्टिः कोटिसहस्राणां षटुं कोटिशतानां षट्षष्टिः कोटीनां षटूषष्टिलक्षाणां षट्षष्टिः सहस्राणां पटं शतानां षट्षष्टिश्च सागरोपमाणां द्वौ च
सागरोपमत्रिभागौ, स्थापना चेयं-६६६६६६६६६६६६६६३ इति, अथाद्यभागयोः स्वरूपप्रश्नायाह-'जंबुद्दीवे शणमित्यादि, सर्व गतार्थ, नानात्वमित्ययं विशेषः-द्वे धनुःसहने ऊर्बोच्चत्वेन कोशोच्चा इत्यर्थः, तेषां च | मनुष्याणां चतुःषष्टिः पृष्ठकरण्डुकानि, अष्टाविंशत्यधिकशतस्यार्कीकरणे एतावत एव लाभात्, चतुर्थभक्तेऽतिक्रान्ते आहारार्थः समुत्पद्यते, एकदिनान्तरित आहार इत्यर्थः, स्थितिः पल्योपमं, एकोनाशीति रात्रिन्दिवानि संरक्षन्ति सङ्गोपयन्ति, अपत्ययुगलकमित्यर्थः, तत्रावस्थाक्रमस्तथैव, नवरमेकैकस्या अवस्थायाः कालमानं एकादशं दिनानि सप्तदश घव्यः अष्टौ पलानि चतुस्त्रिंशच्चाक्षराणि किञ्चिदधिकानीति, एकोनाशीतेः सप्तभिर्भागे एतावत एव लाभात् , अस्यां च भिन्नजातिमनुष्याणामनुषञ्जना नास्ति, तदा तेषामसंभवादिति संभाव्यते, तत्त्वं तु तत्त्वविद्ज्ञेयं, यत्तु-'उग्गा भोगा रायन्न खत्तिआ संगहो भवे चउहा' इत्युक्तं तदरकान्त्यभागभावित्वेन नेहाधिक्रियते, नन्वस्याः समायास्त्रिधा विभजनं किमर्थ ?, उच्यते, यथा प्रथमारकादौ त्रिपल्योपमायुषस्त्रिगव्यूतोच्छ्रयास्त्रिदिनान्तरितभोंजना एकोनपञ्चाशदिनानि कृतापत्यसंरक्षणास्ततः क्रमेण कालपरिहाण्या द्वितीयारकादौ द्विपल्योपमायुषो द्विगव्यूतोच्छ्या द्विदिनान्तरितभोजनाश्चतुःषष्टिदिनानि कृतापत्यसंरक्षणास्ततोऽपि तथैव परिहाण्या तृतीयारकादौ एकपल्योपमायुषः एकगव्यूतो
Jain Education in
For Private Personel Use Only
H
w.jainelibrary.org