________________
म्यर्थे षष्ठी सूत्रत्वात् , चतुःषष्टिं रात्रिन्दिवानि यावत् संरक्षन्ति, अपत्यानि ते मनुजा इति योगः, तत्र सप्तावस्थाक्रमः पूर्वोक्त एव, नवरं एकैकस्या अवस्थायाः कालमानं नव दिनानि अष्टौ घट्यश्चतुस्त्रिंशत् पलानि सप्तदश चाक्षराणि किञ्चिदधिकानीति, चतुःषष्टेः सप्तभिर्भागे एतावत एव लाभात् , यच्च पूर्वेभ्योऽधिकोऽपत्यसंरक्षणकालस्तत्कालस्य हीयमानत्वेनोत्थानादीनां हीयमानत्वाद् भूयसाऽनेहसा व्यक्तताभवनादिति, एवमग्रेऽपि ज्ञेयं, द्वे पल्योपमे आयुस्तेषां मनुजानामिति योगः, एवमन्यत्रापि यथासम्भवमध्याहारेण सूत्राक्षरयोजना कार्या, अन्यत् सर्व सुषमसुषमोक्कमेवेति, अत्रापि यथोक्तमायुःशरीरोच्छ्यादिकं सुषमायामादौ ज्ञेयं, ततः परं क्रमेण हीयमानमिति। अथात्र भगवान् स्वयमेवापृष्टा|| नपि मनुष्यभेदानाह-'तीसे ण' मित्यादि, अत्रान्वययोजना प्राग्वत् , एकाः१ प्रचुरजङ्घाः २ कुसुमाः ३ सुशमनाः ४ | एतेऽपि प्राग्वजातिशब्दा ज्ञेयाः, अन्वर्थता चैवं-एका:-श्रेष्ठाः, संज्ञाशब्दत्वान्न सर्वादित्वं, प्रचुरजक्वाः-पुष्टजवाः नतु ||8| | काकजङ्घा इति भावः, कुसुमसदृशत्वात् सौकुमार्यादिगुणयोगेन कुसुमाः, पुंस्यपि कुसुमशब्दः, सुष्टु-अतिशयेन 18
शमन-शान्तभावो येषां ते तथा, प्रतनुकषायत्वात् , अत्र पूर्वोक्तषट्प्रकारमनुष्याणामभावादेतेऽन्ये जातिभेदाः । & गतो द्वितीयारक इति ।
तीसे णं समाए तिहिं सागरोवमकोडाकोडीहिं काले वीइकते अणंतेहिं वण्णपजवेहिं जाव अणंतगुणपरिहाणीए परिहायमाणी २ एत्थ णं सुसमदुस्समाणामं समा पडिवजिंसु समणाउसो, साणं समा तिहा विभज्जइ-पढमे तिभाए १ मज्झिमे तिभाए २
Jain Education Intel
For Private Porn Use Only
Jainelibrary.org