________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥१३०॥
Jain Education In
मतप्रयोजनः, अथवा पुरुषकार:- पुरुषक्रिया सा च प्रायः स्त्रीक्रियातः प्रकर्षवती भवतीति तत्स्वभावत्वादिति विशेपेण तद्ग्रहणं, पराक्रमस्तु - शत्रुवित्रासनं, तत एते प्राक्तनसमये उत्कृष्टास्ततः परं परिपाठ्या तथैव हीयन्ते, तथा “संघयणं संठाणं उच्चत्तं आउअं च मणुआणं । अणुसमयं परिहायइ ओसप्पिणीकालदोसेणं ॥ १ ॥ कोहमयमायलोभा ओसन्नं वहुए अ मणुआणं । कूडतुलकूडमाणा तेणऽणुमाणेण सबंपि ॥ २ ॥ विसमा अज्ज ! तुलाओ विसमाणि अ जणवसु माणाणि । विसमा रायकुलाई तेण उ विसमाई वासाईं ॥ ३ ॥ विसमेसु अ वासेसुं हुंति असाराई ओसहिबलाई । ओसहिदुब्बल्लेण य आउं परिहायइ णराणं ॥ ४ ॥ इति तण्डुलवैचारिके अवसर्पिणी कालदोषेण हानिरुक्ता सा बाहुल्येन दुःषमामाश्रित्य शेषारकेषु तु यथासम्भवं ज्ञेयेति, ननु नित्यद्रव्यस्यापि कालस्य कथं हानिरिति परकृतासम्भवाशङ्कानिवारणार्थं वर्णादिपर्यवाणां हानिरुक्ता, ते च पुद्गलधर्मास्तर्हि अन्यधम्र्मेंहींयमानैर्विवक्षितः कालः कथं हीयते इति महदसङ्गतं, तथा सति वृद्धाया वयोहानौ युवत्या अपि वयोहानिप्रसङ्ग इति चेत्, न, कालस्य कार्य| वस्तुमात्रे कारणत्वाङ्गीकारात्कार्यगता धर्माः कारणे उपचर्यन्ते कारणत्वसम्बन्धादिति । अथ प्रस्तुतारकस्य स्वरूपप्रश्नायाह - 'जंबुद्दीवे णं भंते!' इत्यादि प्रायः सूत्रं गतार्थमेव, नवरं केवलं नानात्वं-भेदः, स चायं चतुर्धनुः सहस्रो - च्छ्रिताः क्रोशद्वयोच्चास्ते मनुजा इति योगः, मकारोऽलाक्षणिकः, अष्टाविंशत्यधिकं पृष्ठकरण्डकशतं प्रथमारो कपृष्ठकर - |ण्डुकानामर्धमितियावत् तेषां मनुजानामिति योगः, षष्ठभकेऽतिक्रान्ते आहारार्थः समुत्पद्यते इति योगः, सूत्रे सप्त
For Private & Personal Use Only
वक्षस्कारे द्वितीयार
कः सू. २६
॥१३०॥
www.jainelibrary.org