SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ eeeeeeeeeeeeeee [र्यवा अपि अनम्ताः प्रतिसमयं हीयन्ते, ननु पर्यषा एकसमयोना द्विसमयोना यावदसङ्ख्यातसमयोनोत्कृष्टा स्थितिरिलि | स्थितिस्थानतारतम्यरूपा असङ्ख्याता एव, आयुःस्थितेरसङ्ग्यातसमयात्मकत्वात् , तर्हि कथं सूत्रेऽनन्तैरायुःपर्यवैरित्युक्तं !, उच्यते, प्रतिसमयं हीयमानस्थितिस्थानकारणीभूतानि अनन्तानि आयुःकर्मदलिकानि परिहीयन्ते, ततः कारणहानी | कार्यहानेरावश्यकत्वात् , तानि च भवस्थितिकारणत्वादायुःपर्यवा एव अतस्ते अनन्ता इति, तथा अनन्तैगुरुल| घुपर्यवैरिति, गुरुलघुद्रव्याणि-बादरस्कन्धद्रव्याणि औदारिकवैक्रियाहारकतैजसरूपाणि तत्पर्यवाः, तत्र प्रकृते वैक्रियाहारकयोरनुपयोगस्तेन औदारिकशरीरमाश्रित्योत्कृष्टवर्णादयस्तत्राद्यसमये बोध्याः, ततः परं तथैव हीयन्ते तैजसमाश्रित्य कपोतपरिणामकजाठराग्निरुत्कृष्टस्तत्रादिसमये तदनन्तरं मन्दमन्दतरादिवीर्यकत्वरूप इति, तथा अनन्तैरगुरुलघुपर्यवैरिति, अगुरुलघुद्रव्याणि सूक्ष्मद्रव्याणि, प्रस्तुते च पौद्गलिकानि मन्तव्यानि, अन्यथाऽपौद्गलिकानां धर्मास्तिकायादीनामपि पर्यवहानिप्रसङ्गः, तानि च कार्मणमनोभाषादिद्रव्याणि तेषां पर्यवैरनन्तैः, तत्र कार्मणस्य सातवेदनीयशुभनिर्माणसुस्वरसौभाग्याऽऽदेयादिरूपस्य बहुस्थित्यनुभागप्रदेशकत्वेन मनोद्रव्यस्य बहुग्रहणासन्दिग्धग्रहणझटि|तिग्रहणबहुधारणादिमत्तया भापाद्रव्यस्योदात्तस्वगम्भीरोपनीतरागत्वप्रतिनादविधायितादिरूपतया च तत्रादिसमये उत्कृ-8 ष्टता, ततः परं क्रमेणानन्ताः पर्यवा हीयन्ते, अनन्तैरुत्थानादिपर्यवैः, तत्रोत्थान-ऊर्ध्व भवनं कर्म-उत्क्षेपणावक्षेप-18 ४ाणादि गमनादि वा बलं-शारीरः प्राणः वीर्य-जीपोत्साहः पुरुषाकार:-पौरुषाभिमानः पराक्रमश्च-स एव साधिताभि Jain Education a l For Private Personal Use Only A Rw.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy