SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ Jain Education f | संकलजीवराशेरनन्तगुणाधिकास्तैरऽनन्ता ये गुणा - अनन्तरोकस्वरूपा भागास्तेषां परिहाणि: - अपचयस्तया प्रकारभूतया | इत्यर्थः, हीयमानः २ सुषमा कालविशेष इति योज्यं, एवमग्रेऽपि योजना कार्या, अथ यथैषामनन्तत्वमनुसमयमनन्तगुणहानिश्च तथा दर्श्यते- 'तीसे णं समाए उत्तम कट्टपत्ताए' इति प्रागुक्तबलात् प्रथमसमये कल्पद्रुमपुष्पफलादिगतो यः श्वेतो वर्णः स उत्कृष्टः, तस्य केवलिप्रज्ञया छिद्यमाना यदि निर्विभागा भागाः क्रियन्ते तर्हि अनन्ता भवन्ति तेषां मध्यादनन्तभागात्मक एको राशिः प्रथमारकद्वितीयसमये त्रुट्यति, एवं तृतीयादिसमयेष्वपि वाच्यं यावत्प्रथमारकान्त्यसमयः, एषैव रीतिरवसर्पिणीचरमसमयं यावज्ज्ञेया, अत एव अनन्तगुणपरिहाण्येत्यत्र अनन्तगुणानां परिहाणिरिति षष्ठीतत्पुरुष एव विधेयो न तु अनन्तगुणा चासौ परिहाणिश्चेति कर्मधारयः, गुणशब्दश्च भागपर्यायवचनोऽनुयोगद्वारवृत्तिकृता एकगुणकालकपर्यव विचारे सुस्पष्टमाख्यातोऽस्ति, एवं सति श्वेतवर्णस्यासन्न एव सर्वथोच्छेदः, तथा च सति श्वेतवस्तुनोऽश्वेतत्वप्रसङ्गः, एतच्च जातिपुष्पादिषु प्रत्यक्षविरुद्धं १, उच्यते, आगमेऽनन्तकस्यानन्तभेदत्वात् हीयमानभागानामनन्तकमल्पं ततो मौलराशेर्भागानन्तकं बृहत्तरमवगन्तव्यं, यदि नाम सिद्ध्यत्स्वपि भव्येषु लोकेषु न तेषामनन्तका - लेनापि निर्लेपना आगमेऽभिहिता किं पुनः सर्वजीवेभ्योऽनन्तगुणानामुत्कृष्टवर्णगतभागानां १, न च ते सङ्ख्याता एवं | सिद्ध्यन्ति, इमे तु प्रतिसमयमनन्ता हीयन्ते इति महद्दृष्टान्तवैषम्यमिति वाच्यं, यतस्तत्र यथा सिध्यतां भव्यानां संख्यातता | तथा सिद्धिकालोऽनन्त एवमत्रापि यथा प्रतिसमयमनन्तानामेषां हीयमानता तथा हानिकालोऽवसर्पिणीप्रमाण एव ततः For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy