SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशा न्तिचन्द्रीया वृत्तिः ॥११॥ स्वमते व्यवस्थापिते स्थापनानयः प्राह-नानो वस्तुसंज्ञामात्ररूपस्य वाच्यवाचकभावसम्बन्धमात्रेणैव स्थितत्वाद्वस्तुनोऽति-18 निक्षेपदूरत्वं स्थापनायास्तु वस्तुसंस्थानरूपायास्तादात्म्यसम्बन्धेनार्वस्थितत्वाद्भावप्रत्यासन्नत्वं, किश्च-देशान्तरकालान्सरविप्रकृ-18 चतुष्क ष्टमपि वस्तु स्थाप्यप्रतिमादौ सन्निदधाति अन्यथा मन्त्रागमे सन्निधापन्यादिमुद्राप्ररूपणानां नैष्फल्यप्रसङ्गा, यथा च स्थापनेन्द्रः शचीकुलिशादिसाचिव्येन निर्विलम्ब तदेकतानानां भावधियं जनयति न तथा नामेन्द्रः, तस्यानाकारत्वात् , तस्मात् स्थापनैव प्रधानाऽस्तु, स्थापनानयेनैवमुक्त द्रव्यनयः स्वाशयमाविर्भावयति-को हि नाम स्थापनानयस्याकारग्रहो ? यस्मादनादिमदुत्प्रेक्षितपर्यायशृङ्खलाधारस्य मृदादिद्रव्यस्य पूर्वपर्यायमात्रतिरोभावेऽग्रेतनपर्यायमात्राविर्भावलक्षणपरिणामव्यतिरेकेण नान्यत् किमप्याकारदर्शनं, किन्तूत्पादव्ययरहितं उत्फणविफणकुण्डलिताकारसमन्वितसर्प-12 द्रव्यवनिर्विकारं द्रव्यमेवास्ति, न ह्यत्र किमप्यपूर्वमुत्पद्यमानं वा विनश्यति (वा) येन विकारः स्यात् , ननु कथमुत्पादा|दिरहितं द्रव्यं ?, यावता सादिके द्रव्ये उत्फणविफणादयः पर्याया उत्पद्यमाना निवर्तमानाश्च साक्षादेव दृश्यन्ते इति चेत्, न, आविर्भावतिरोभावमात्रपरिणामस्य कारणं द्रव्यं, यथा सर्प उत्फणविफणावस्थयोरिति, न ह्यापूर्व किञ्चिदुत्पद्यते, किं तर्हि ?, छन्नरूपतया विद्यमानमेवाविर्भवति, नाप्याविर्भूतं सद् विनश्यति, किन्तु छन्नरूपतया तिरोभावमात्रमेवासादयति, एवञ्च सत्याविर्भावतिरोभावमात्र एव कार्योपचारात्कारण(त्व)मस्यौपचारिकमेव, तस्मादुत्पादा-1 दिरहितं द्रव्यमुच्यत इति, ननु यद्येकस्वभावं निर्विकारं द्रव्यं तीनन्तकालभाविनामनन्तानामप्याविर्भावतिरोभावा cekeeeeeeeeeee ॥११॥ Jan Education in For Private Personal Use Only www.ininelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy