________________
नामेकहेलयैव कारणं किमिति न भवतीति !, उच्यते, अचिन्त्यस्वभाव हि द्रव्यं, तेनैकस्वभावस्थापि तस्य क्रमेणैवाविर्भावतिरोभावमात्रप्रवृत्तिः सर्पादिद्रव्येष्वेकस्वभावेष्वप्युत्फणविफणादिपर्यायाणां क्रमवृत्तेः प्रत्यक्षसिद्धत्वादिति, ननु यद्येवमुत्फणविफणादिबहुरूपत्वात् पूर्वावस्थापरित्यागेन चोत्तरावस्थाधिष्ठानादनित्यता द्रव्यस्य किमिति न भवति !,M उच्यते, वेषान्तरापन्ननटवद् बहुरूपमपि द्रव्यं नित्यमेव, न हि नटो वेषान्तराणि कुर्वाणोऽप्यनित्यो भवति, तस्य स्वयमविकारित्वादिति द्रव्यमेव प्रधानमिति । एवं द्रव्यनयेन स्वमते व्यवस्थापिते भावनयः प्राह-भावेभ्यः पर्यायापरनामभ्योऽर्थान्तरभूतं किमपि द्रव्यं नास्ति, किन्तु भाव एव यदिदं दृश्यते त्रिभुवने वस्तुनिकुरम्बमिति, यतः प्रसिक्षणं भवनमेवानुभूयते, किमुक्तं भवति ?-भावस्यैकस्यापत्तिः परस्य तु विपत्तिः, न च भावापत्तिविपत्ती हेत्वपेक्षे, यश्च हेतुः स एव द्रव्यमिति वाच्यं, न हि भावो घटादिरुत्पद्यमानो भावान्तरं मृत्पिण्डादिकमपेक्षते किन्तु निरपेक्षमेवोत्यचते, अपेक्षा हि विद्यमानस्यैव भवति, न च मृत्पिण्डादिकारणकाले घटादि कार्यमस्ति, अविद्यमानस्य चापेक्षायां | खरविषाणस्यापि तथाभावप्रसङ्गात् , यदिचोत्पत्तिक्षणात् प्रागपि घटादिरस्ति, तर्हि किं मृत्पिण्डाद्यपेक्षया ?, तख स्वत एव विद्यमानत्वात् , अथोत्पन्नः सन् घटादिः पश्चात् मृत्पिण्डादिकमपेक्षते, हन्त! तदिदं मुण्डितशिरसी दिनशुद्धिप
लोचनं, यदि हि स्वत एव कथमपि निष्पन्नो घटादिः किं तस्य पश्चात् मृत्पिण्डाद्यपेक्षयेति , तथा विनाशोअमि निर्हेतुक एव, मुद्रोपनिपातादिसव्यपेक्षा एवघटादयो विनाशमाविनन्तो दृश्यन्तेन हि निर्हेतुका इति चेत्, नैवं, विना
weeeeeeeeeeeeese
Jan Education
For FIGES Persone Use Only
ww