________________
Jain Education Inf
"
लभूता अध्यर्हन्तः परेषां नमनस्तवनादिनैवाभीष्टफलदा भवन्तीति ज्ञापनायार्हयोऽपि नमस्कारस्यादावुपन्यास इति, किश्च - 'अरिहंताण' मित्यत्र जात्यपेक्षयैकवचनेनापि सर्वार्हतां ग्रहणे सिद्धे बहुवचनेन नामस्थापनाद्रव्यभावार्हतां चतुर्णामपि तुल्यकक्षतया नमस्कार्यत्वस्य ज्ञापितत्वादेकान्ततः स्वमतप्राधान्यवादितया परस्परं विवदमानेषु नामनयादिषु प्रथमतः स्वोत्प्रेक्षितयुक्त्युपदर्शनपुरस्सरं नामनयः प्राह - तथा च प्रयोगः - वस्तुस्वरूपं नाम, तत्प्रत्ययहेतुत्वात्, | स्वधर्मवत् इह यद्यस्य प्रत्ययहेतुस्तत्तस्य धर्मो यथा घटस्य स्वधर्मरूपा घटादयः, यद्यस्य धर्मो न भवति न तत्तस्य प्रत्यय हेतुः, यथा घटस्य धर्माः पटस्य, सम्पद्यते च घटाभिधानाद् घटे सम्प्रत्ययः, तस्मात्तत्तस्य धर्म इति, सिद्धश्च हेतुर्घटशब्दात् पटादि व्यावृत्त्या घटप्रतिपत्तेः प्रतीतत्वात् किञ्च लक्ष्यलक्षणसंव्यवहाराणामात्मलाभो नामायत्त एव तत्र लक्ष्यं जीवत्वादि लक्षणमुपयोगः संव्यवहारः प्रेषणाध्येषणादिरिति, तथा यदि नाम्नो वस्तुधर्मत्वं नाभ्युपगम्यते तदा | संशयादयोऽपि (दय एव भवेयुः, यदुक्तम् - "संसयविवज्जओ वाऽणज्झवसाओऽहवा जहिच्छाए । होज्जत्थे पडिवत्ती न . वत्थुधम्मो जया नामं ॥ १ ॥ अत्र व्याख्यालेश:- केनचिद् घटशब्दे समुच्चारिते श्रोतुः किमयमाहेत्येवं संशयः अथवा पटप्रतिपत्तिलक्षणो विपर्ययः अथवा न जाने किमप्यनेनोक्तमिति वस्त्वप्रतिपत्तिरूपोऽनध्यवसायः यदिवा यदृच्छयाऽर्थे प्रतिपत्तिः- कदाचिद् घटस्य कदाचित्पटस्येत्यादि, ततोऽवश्यं वस्तुधर्मो नामाभ्युपगन्तव्यमित्यादि, तदेवं नामनयेन १ संशयो विपर्ययो वाऽनध्यवसायोऽथवा यदृच्छया । भवेदर्थे प्रतिपत्तिर्न वस्तुधर्मो यदा नाम ॥ १ ॥
For Private & Personal Use Only
ww.jainelibrary.org