SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ नमस्कार निक्षेपा श्रीजम्बू- द्वीपशा- न्तिचन्द्रीया वृत्तिः । ॥१०॥ णापि निक्षेपः सम्भवति परं स विस्तरभयानोपदयते, एवमन्येष्वपि सूत्रालापकेषु स्वधिया यथासम्भवं निक्षेपः कार्य णापि निक्षपः सम्भवति इति । उक्तः सूत्रालापकनिष्पन्ननिक्षेपः, पदार्थः पुनरेवं-नम इति नैपातिकं पदं द्रव्यभावसंकोचार्थ, आह च-'नेवाइयं पयं दवभावसंकोयण पयत्थो" नमः-करचरणमस्तकसुप्रणिधानरूपो नमस्कारो भवत्वित्यर्थः, केभ्य इत्याह-'अर्हयः' अमरवरविनिर्मिताशोकाद्यष्टमहाप्रातिहार्यरूपां पूजामहन्तीत्यर्हन्तस्तेभ्यः, इह च चतुर्थ्यर्थे षष्ठी प्राकृतशैलीवशात् , अत्र द्रव्यसङ्कोचनं करशिरपादादिसङ्कोचः, भावसङ्कोचनं तु विशुद्धस्य मनसोऽहंदादिगुणेषु निवेशः, तत्र च भङ्गचतुष्कंद्रव्यसङ्कोचो न भावसङ्कोचो यथा पालकादीनाम् १ भावसङ्कोचो न द्रव्यसङ्कोचो यथाऽनुत्तरसुरादीनां २ द्रव्यसङ्कोचो | भावसङ्कोचश्च यथा शाम्बस्य ३ न द्रव्यसङ्कोचो न भावसङ्कोच इति भङ्गः शून्यः ४, इह च तृतीयभङ्गस्योपयोगः, भावसङ्कोचप्रधानद्रव्यसङ्कोचरूपत्वात् प्रस्तुतनमस्कारस्य, अनेन च मङ्गलान्तरस्य फलव्यभिचारित्वेनानैकान्तिकत्वात्तदपहाय तदन्यस्वरूपतयाऽवश्यं भावेनाभिलषितार्थसाधनसमर्थत्वादत्यन्तोपादेयं परमेष्ठिनमस्कारलक्षणं भावमङ्गलमुपातं, सत्स्वपि तपःप्रभृतिष्वन्यभावमङ्गलेषु यदस्योपादानं तत् शास्त्रादावस्यैव व्यवहारप्राप्तत्वमिति ज्ञापनार्थ, अत्र च बहुवचनं व्याप्त्यर्थ, तेन सकलनिक्षेपगतजिनपरिग्रहः । अथ पदविग्रहः, स च समस्तपदे सति सम्भवतीत्यत्र नोकः। P अथ चालनाप्रत्यवस्थाने-नन्वर्हतां परममङ्गलत्वेन नमस्काराभिधानतोऽप्यादौ तदुपादानमुचितमिति, सत्यं, स्वयं मङ्ग१ नैपातिकं पदं । द्रव्यमावसंकोचः पदार्थः । caeeeeeeeeeeeeeeeee ॥१०॥ For Private & Personal Use Only Jain Education dw.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy