________________
'णमो अरिहंताण'मित्यादि, अस्य च व्याख्या संहितादिक्रमेण, तत्रास्खलितसूत्रपाठः संहिता, सूत्रे चास्खलितादि|| गुणोपेते उच्चारिते केचिदर्था अवगताः प्राज्ञानां भवन्त्यतः संहिता व्याख्याभेदो भवति, अनधिगतार्थाधिगमाय च पदा-1॥ दयो व्याख्याभेदाः प्रवर्तन्त इति, तत्र पदानि नमः अर्हन्यः इति, एवं पदकरणे सूत्रालापकनिष्पन्ननिक्षेपावसरः, सत्र नमस्कारस्य नामादिभिश्चतुर्दा निक्षेपः, तत्र नामनमस्कारो नम इत्यभिधानं, स्थापनानमस्कारो नमस्कारकरणप्रवृत्तस्थ संकोचितकरचरणस्य काष्ठपुस्तचित्रादिगतः साध्वादेराकारः, द्रव्यनमस्कार आगमतो नोआगमतश्च, तत्रागमतस्तदर्थज्ञाताऽनुपयुक्तः, नोआगमतो ज्ञशरीरभव्यशरीरनमस्कारौ प्रतीतौ, ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यनमस्कारो निह-18 वादीनां, तेषां मिथ्यादृष्टित्वेनाप्रधानत्वात् , सम्यग्दृष्टेरप्यनुपयुक्ततया नमस्कुर्वतो द्रव्यनमस्कारः, राजादेव्यार्थ वा नमस्करणं तस्यैव वा भयादिना द्रमकादेर्नमस्करणं बलवन्नरपुरुषाक्रान्तस्य धनुरादेवीभावो वा द्रव्यनमस्कारः, भावनमस्कारोऽपि आगमतो नोआगमतश्च, तत्र आगमतस्तदर्थज्ञातोपयुक्तो, यदा तु मनसोपयुक्तो वचनेन नमोऽर्हग्य इति । ब्रुवाणः कायेन तु सङ्कोचितकरचरणो नमस्कारं करोति तदा नोआगमतो भावनमस्कारः, अनेन चात्राधिकारः, अथ अर्हन्-जिनः सोऽपि नामादिभेदैश्चतुर्की, ते च नामादयो भेदाः-"नामजिणा जिणनामा ठवणजिणा पुण जिणिंदपडिमाओ। दवजिणा जिणजीवा भावजिणा समवसरणत्था ॥१॥" अनया गाथया अवगन्तव्याः, अत्र प्रकारान्तरे१ नामजिना जिननामानि स्थापनाजिना जिनेन्द्रप्रतिमाः पुनः । द्रव्यजिना जिनजीवा भावजिनाः समवसरणस्थाः ॥ १॥
Jain Education in
bal
For Private Porn Use Only
w
eibrary.org