________________
Jain Education In
मानाधिकारे "दस वाससहस्साई समयाई जाव सागरं ऊणं । दिवस मुहुत्त पुहुत्ता आहारुस्सास सेसाणं ॥ १ ॥ " इत्यस्वा गाथाया अर्थकथनावसरे कृतमस्तीति सर्वं सुस्थमिति । अथ तदा मनुजानामेकत्वमुत नानात्वमिति प्रश्नयन्नाह - 'तीसे ण' मित्यादि, तस्यां समायां भगवन् ! भरते वर्षे कतिविधा: - जातिभेदेन कतिप्रकारा मनुष्या अनुषतवन्तः - कालात्कालान्तरमनुवृत्तवन्तः, सन्ततिभावेन भवन्ति स्मेत्यर्थः, भगवानाह - गौतम ! षडूविधाः, तद्यथा- पद्मगन्धाः १ मृगगन्धाः २ अममा ३ स्तेजस्तलिनः ४ सहाः ५ शनैश्चारिणः ६, इमे जातिवाचकाः शब्दाः संज्ञाशब्दत्वेन रूढाः, यथा पूर्वमेकाकाराऽपि मनुष्यजातिस्तृतीयारकप्रान्ते श्रीऋषभदेवेन उग्रभोगराजम्यक्षत्रियभेदैश्चतुर्द्धा कृता तथाऽत्राप्येवं षड्विधा सा स्वभावत एवास्तीति, यद्यपि श्रीअभयदेवसूरिपादैः पञ्चमाङ्गषष्ठशतकसप्तमोद्देशके पद्मसमगन्धयः मृगमदगन्धयः ममीकाररहितास्तेजश्च तलं च रूपं येषामस्तीति तेजस्त लिनः सहिष्णवः - समर्थाः शनैः - मन्दमुत्सुकत्वाभावाच्चरन्तीत्येवंशीला इत्यन्वर्थता व्याख्यातास्ति, तथापि तथाविधसम्प्रदायाभावात् साधारणव्यञ्जकाभावेन तेनैषां जातिप्रकाराणां दुर्बोधत्वाज्जीवाभिगमवृत्तौ सामान्यतो जातिवाचकतया व्याख्यानदर्शनाच्च न विशेषतो व्यक्तिः कृतेति । गतः
प्रथमारकः ॥
तीसे णं समाए चहिं सागरोगमकोडाकोडीहिं काले वीइकंते अनंतेहिं वण्णपज्जवेहिं अणंतेहिं गंधपज्जवेहिं अणंतेहिं रसपज्जवेहिं अणंतेहिं फासपज्जवेहिं अणतेहिं संघयणपज्जवेहिं अतेहिं संठाणपज्जवेहिं अनंतेहिं उच्चत्तपज्जवेहिं अणतेहिं आउपज्जवेहिं अणतेहिं
For Private & Personal Use Only
www.jainelibrary.org