________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥१२७॥
Jain Education Inte
द्वितीय सप्तके पृथिव्यां रिङ्खन्ति ततस्तृतीयसप्तके कलगिरो - व्यक्तवाचो भवन्ति, ततश्चतुर्थसप्तके स्खलद्भिः पदैर्यान्ति, | ततः पश्चमसप्तके स्थेयोभिः - स्थिरैः पदैर्यान्ति, ततः षष्ठसप्तके कलागणभृतो भवन्ति, ततः सप्तमसप्तके तारुण्यभोगो| द्वताः भवन्ति केचिच्च सुगादानेऽपि सम्यक्त्वग्रहणेऽपि योग्या भवन्तीति क्रमः, इदं चावस्थाकालमानं सुषमासुषमायामादौ ज्ञेयं, ततः परं किश्चिदधिकमपि सम्भाव्यते इति, अत्र प्रस्तावाद् कश्चिदाह-अथ तदाऽग्निसंस्कारादेरप्रादुर्भूतत्वेन मृतकशरीराणां का गतिरिति १, उच्यते, भारण्डप्रभृतिपक्षिणस्तानि तथाजगत्स्वाभाव्यात् नीडकाष्ठमिवोत्पाव्य मध्येसमुद्रं क्षिपन्ति, यदुक्तं श्रीहेमाचार्यकृत ऋषभचरित्रे - " पुरा हि मृतमिथुनशरीराणि महाखगाः । नीडकाष्ठमिवोत्पाट्य, सद्यश्चिक्षिपुरंबुधौ ॥ १ ॥” किश्चात्र श्लोके अम्बुधावित्युपलक्षणं तेन यथायोगं गङ्गाप्रभृतिनदीष्वपि ते तानि क्षिपन्तीति ज्ञेयं, ननु चोत्कृष्टतोऽपि धनुःपृथक्त्वमानशरीरैस्तैरुत्कृष्टप्रमाणानि तानि कथं सुवहानीत्यत्रापि समाधीयते - युग्मिशरीराणामम्बुधिक्षेपस्य महाखगकृतत्वेन बहुषु स्थानेषु प्रतिपादनादवसीयते यत् 'पक्खी धणुह पुहत्त| मित्यत्र सूत्रे जात्यपेक्षया एकवचननिर्देशस्तेन क्वचिद् बहुवचनं व्याख्येयं, तथा च सति पक्षिशरीरमानस्य यथासम्भव | मरकापेक्षया बहुबहुतर बहुतमधनुः पृथक्त्वरूपस्यापि सम्भवात् तत्कालवर्त्तियुग्मिनरहस्त्यादिशरीरापेक्षया बहुधनुः पृथक्त्व| परिमाणशरीरैस्तैर्न किश्चिदपि तानि दुर्वहानीति न काप्यनुपपत्तिरिति सम्भाव्यते, तत्त्वं बहुश्रुतगम्यं, एवं च सूत्रे एकवचननिर्देशेऽपि बहुवचनेन व्याख्यानं श्रीमलयगिरिपादैरपि श्रीबृहत्संग्रहणिष्टत्तौ देवानामाहारोच्छ्रासान्तरकाल
For Private & Personal Use Only
२वक्षस्कारे प्रथमारक स्वरूपं सू.
२५
॥१२७॥
jainelibrary.org