SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू. २२ Jain Educ कृत्वा देवलोकेषु - ईशानान्तसुरलोके पूत्पद्यन्ते, स्वसमहीनायुष्करेष्वेव तदुत्पत्तिसम्भवात्, अत्र कालमास इति कथनेन तत्कालभाविमनुजानामकालमरणाभावमाह, अपर्याप्त कान्तर्मुहूर्त्तकालानन्तरमनपवर्त्तनीयायुष्कत्वात्, अत्राह कश्चित् - ननु सर्वथा वर्त्तमानभवायुःकर्मपुद्गलपरिशाटकालस्यैव मरणकालत्वात् कथमकालमरणमुपपद्यते, यद| भावो वर्त्तमानसमायां निरूप्यते इति चेत्, सत्यं द्विधा ह्यायुर्नरतिरश्चां अपवर्त्तनीयमनपवर्त्तनीयं च तत्राद्यं बहुका| लवेद्यं सत्तथाऽध्यवसाययोगजनितश्लथबन्धन बद्धतयोदीर्णसर्वप्रदेशाग्रमपवर्त्तनाकरणवशादल्पीयः कालेन रज्जुदहन| न्यायेन क्लिन्नवासोन्यायेन मुष्टिजलन्यायेन वा युगपद्वेद्यते, इतरत्तु गांढबन्धनवद्धतयाऽनपवर्त्तनायोग्यं क्रमेण वेद्यते, | तेन बहुषु वर्त्तमानारकोचितमनपवर्त्तनीयमायुः क्रमेणानुभवत्सु सत्सु यदैकस्य कस्यचिदायुः परिवर्त्तते तदा तस्य लोकैर| कालमरणमिति व्यपदिश्यते, 'पढमो अकालमच्च' इत्यादिवत् तेनान्यदा अकालमरणस्यापि सम्भवात्तत्तदानीं तन्नि | षेध इति न दोष इति । अथ कथं ते देवलोकेषूत्पद्यन्ते इत्याह-यतो देवलोको-भवनपत्याद्याश्रयरूपस्तस्य तथाविधकालस्वभावात् तद्योग्यायुर्बन्धेन परिग्रहः - अङ्गीकारो येषां ते तथा देवलोकगामिन इत्यर्थः, एषां चैकोनपञ्चाशद्दिनावधि परि| पालने केचिदेवमवस्थामाहुः - सप्तोत्तानशया लिहन्ति दिवसान् स्वाङ्गुष्ठमार्यास्ततः, कौ रिङ्खन्ति पदैस्ततः कलगिरो यान्ति स्खलद्भिस्ततः । स्थेयोभिश्च ततः कलागणभृतस्तारुण्यभोगोद्गताः, सप्ताहेन ततो भवन्ति सुदृगादानेऽपि योग्यास्ततः ॥ १ ॥ अत्र व्याख्या - आर्याः सप्त दिवसान् - जन्मदिवसादिकान् यावत् उत्तानशयाः सन्तः स्वाङ्गुष्ठं लिहन्ति, ततो For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy