SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ पदं प्रमादापतितमिति ज्ञेयं, तदर्थस्य तत्त्वतो व्यपगतपदेनैवोक्तत्वात् । 'अत्थि 'मित्यादि, अत्र अहयः-सामान्यतः| सर्पाः अजगरा:-महाकायसर्पाः शेषं पूर्ववत् , यतः प्रकृतिभद्रकास्ते व्यालगणाः-सरिसृपजातीयगणाः प्रज्ञप्ता इति ।। अत्र ग्रहयुद्धसूत्रं जीवाभिगमादिषु साक्षाद् दृष्टमपि एतत्सूत्रादर्शेषु न दृष्टमिति न व्याख्यायामप्यलेखि। अत्थि ण'मित्यादि, अत्र डिम्बडमरौ पूर्ववत् , कलहो-वचनराटिः बोलो-बहूनामा नामव्यक्ताक्षरध्वनिकः कलकलः क्षारः| परस्परं मत्सरः वैरं-परस्परमसहमानतया हिंस्यहिंसकताध्यवसायः महायुद्धानि-व्यवस्थाहीना महारणाः महासङ्ग्रामाःचक्रादिव्यूहरचनोपेततया सव्यवस्था महारणाः महाशस्त्राणि-नागबाणादीनि तेषां निपतनानि-हिंसाबुद्ध्या रिपुमोचनानि, महाशस्त्रत्वं चैतेषामद्भुतविचित्रशक्तिकत्वात् , तथाहि-नागबाणा धनुष्यारोपिता बाणाकारा मुक्ताश्च सन्तो जाज्वल्यमानासह्योल्कादण्डरूपास्ततः परशरीरे सङ्घान्ता नागमूर्तीभूय पाशत्वमश्नुवते, तामसबाणास्तु सकलरणो/व्या-18 | पिमहान्धतमसरूपतया पवनबाणाश्च तथाविधपवनस्वरूपतया वह्निबाणाश्च तादृशवह्निप्रकारेण परिणताः प्रतिवैरिवाहि-18 नीषु विघ्नोत्पादका भवन्ति, एवमन्येष्वपि स्वस्वनामानुसारेण स्वस्वजन्यकार्यमुत्पादयन्ति, उक्तं च-"चित्रं श्रेणिक! ते बाणा, भवन्ति धनुराश्रिताः। उल्कारूपाश्च गच्छन्तः, शरीरे नागमूर्तयः ॥१॥क्षणं बाणाः क्षणं दण्डाः, क्षणं | पाशत्वमागताः। आमरा ह्यस्त्रभेदास्ते, यथाचिन्तितमूर्तयः॥२॥" महापुरुषा:-छत्रपत्यादयस्तेषां पतनानि-कालधर्मन-18 यनानि, तत एव महारुधिराणि-छत्रपत्यादिसत्करुधिराणि तेषां निपतनानि-प्रवाहरूपतया वहनानि, अत्रोत्तरम् For Private Jain Education Intel M Personal Use Only ainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy