________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥१२४॥
Jain Education Int
यस्य तैलं अलसीतैलमिति प्रतीतं 'कुसुंभ'त्ति लट्टाकाणाः यत्पुष्पैर्वस्त्रादिरागः समुत्पाद्यते कोद्रवाः - प्रतीताः कङ्गवःपीततण्डुलाः 'बरग'त्ति बरट्टी धान्यविशेषः सपादलक्षादिषु प्रसिद्धः रालकः - कविशेष एव स चायं ( विशेषः ) बृहच्छिराः कङ्गुरल्पशिरा रालकः, शणं-त्वक्प्रधाननालो धान्यविशेषः सर्षपाः प्रतीताः मूलकं- शाकविशेषः तस्य बीजानि, प्राकृतत्वात् ककारलोपसन्धिभ्यां निष्पत्तिः, अत्रोत्तरम् - सन्ति, न च तेषां मनुजानां परिभोग्यतया कदाचि - दायान्ति कल्पद्रुमपुष्पफलाद्या हारकत्वात्तेषामिति, 'अत्थि ण' मित्यादि, अत्र गर्त्ता - महती खड्डा दरी - मूषिकादिकृता लघ्वी खड्डा अवपान:- प्रपातस्थानं यत्र चलन् जनः सप्रकाशेऽपि पतति प्रपातो - भृगुर्यत्र जनः काश्चित् कामनां कृत्वा | प्रपतति विषमं - दुरारोहावरोहस्थानं विजलं - स्निग्धकर्द्दमाविलस्थानं यत्र जनोऽतर्कित एव पतति, नायमर्थः समर्थ इत्यादि, न सन्तीत्यर्थः, भरतवर्षे बहुसमरमणीयो भूमिभागो यतः प्रज्ञप्तः 'से जहा णामए' इत्यादि वर्णकः प्राग्वद् ज्ञेयः । 'अत्थि ण' मित्यादि, अत्र स्थाणुः - ऊर्ध्वकाष्ठं कण्टकः- स्पष्टः तृणान्येव कचवरः पत्राण्येव कचवरः, अत्राह - 'ने' त्यादि, यतो व्यपगतस्थाणुयावत्पत्रकचवरा सा- सुषमसुषमा नाम्नी समा-अरकः प्रज्ञप्ता । 'अत्थि ण' मित्यादि, अत्र दंशमशकयूकालिक्षाः स्पष्टाः ढिकुणा - मत्कुणाः यदाहुः श्रीहेमसूरयो देश्यां- "मकुणए ढिंकुण ढंकुणा तहा ढंकणी पिहाणीए" | इति, पिशुकाः- चञ्चटाः, अत्राचार्यः - व्यपगतदंशमशकयूकालिक्षा तथा ढिकुणापिशुकोपद्रवविरहिता, पश्चात् कर्मधारयः, सा समा प्रज्ञप्ता, अत्र सूत्रे व्यपगतेत्यादिविशेषणस्य कर्मधारयं विना व्याख्यानकरणे प्रस्तुतमूलादर्शे विरहिअत्ति
For Private & Personal Use Only
वक्षस्कारे प्रथमारके - नरावासा|दिव. सू. २३-२४
॥ १२४॥
www.jainelibrary.org