________________
नायमित्यादि, पादचारेण न तु शकटादिचारेण विहारो-विचरण येषां ते तथा मनुजा इत्यादि। 'अस्थि ण'मित्यादि. अत्र गोमहिष्यजाः स्पष्टाः, एडका-उरभ्री, आह-'नो चेवेत्यादि न च तेषां मनुष्याणां परिभोग्यतया कदाचिदागच्छन्ति, नैतासां दुग्धादि तेषामुपभोग्यमितियावत्। 'अस्थि ण'मित्यादि, अनाश्वाः हस्तिनः उष्ट्राः प्रतीताः गोणा-गावः गवयो|वनगः अजैडको स्पष्टौ प्रश्नया-द्विखुरा आटव्यपशुविशेषाः मृगवराही व्यक्तौ रुरवो-मृगविशेषाः शरभा-अष्टापदाः चमरा-अरण्यगवो यासांपुच्छकेशाचामरतया भवन्ति शबरा-येषामनेकशाखे शृङ्गे भवतः कुरङ्गगोकर्णी मृगभेदौशृङ्गव
र्णादिविशेषाश्च सामर्थ्यगम्याः, अत्रोत्तरम्-हन्तेति कोमलामन्त्रणे, सन्ति, न चैव तेषां प्रथमसमाभाविनां मनुष्याणां | यथासम्भवमारोहणादिकार्येपूपयुज्यन्ते। अथ नाखरप्रश्नसूत्रमाह-'अत्थिण'मित्यादि, अत्र सिंहाः-केसरिणः व्याघ्राःप्रतीताः वृका-ईहामृगाः द्वीपिन:-चित्रकाः रुक्षा-अच्छभल्लाः तरक्षवो-मृगादनाः शृगाला व्यक्ताः बिडाला-मार्जाराः शुनकाः-श्वानः कोकन्तिका-लोमटका ये रात्री को को इत्येवं रवन्ति कोलशुनका-महाशूकराः, अत्रोत्तरम्-सन्ति, परं नैव तेषां मनुजानां आवाधां वा-ईषद्बाधां व्यावाधावा-विशेषेणाबाधां छविच्छेदं वा-चर्मकर्त्तनं उत्पादयन्ति, यतः प्रकृतिभद्रकास्ते श्वापदगणाःप्रज्ञप्ता अत्थिणमित्यादि,अत्र शालयः-कलमादिविशेषाः व्रीहयः-सामान्यतः गोधूमयवौ प्रतीतौ यवयवा-यवविशेषाः 'कल'त्ति कलायास्त्रिपुटाख्या वृत्तचणका वा मसूरा-मालवादिदेशप्रसिद्धा धान्यविशेषा मुद्गमाषतिलाः कुलत्थाः-चपलकतुल्याश्चिपिटा भवन्ति निष्पावा-बल्लाः 'आलिसंदग'त्ति चपलकाः अलसी-धान्यं
Jain Education nae
For Private & Personal Use Only
inbrary.org