________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥१२३॥
Jain Education Inte
| स्थालीपाकः - सम्प्रदायगम्यः मृतपिण्डनिवेदनानि - मृतेभ्यः स्मशाने तृतीयनवमादिषु दिनेषु पिण्डनिवेदनानि - पिण्डसम - र्पणानि १, अत्रोत्तरं - नायमर्थः समर्थः, व्यपगतावाहविवाहयज्ञश्राद्धस्थालीपाकमृतपिण्डनिवेदनास्ते मनुजाः । 'अत्थि णमित्यादि, इन्द्रः प्रतीतस्तस्य महः - प्रतिनियतदिवसभावी उत्सवः, एवमग्रेऽपि, स्कन्दः - कार्त्तिकेयः नागो - भवनपतिविशेषः यक्षभूतौ - व्यन्तरविशेषौ 'अगड'त्ति अवटः - कूपः तडागः - सरः द्रहनदीरूक्षपर्वताः प्रतीताः स्तूपः- पीठविशेषः चैत्यं व- इष्टदेवतायतनं, अत्राह - व्यपगतमहिमानस्ते मनुजाः प्रज्ञताः । 'अत्थि ण' मित्यादि, नटा - नाटयितारः तेषां | प्रेक्षा- प्रेक्षणकं कौतुकदर्शनोत्सुकजनमेलकः, एवमग्रेऽपि, नृत्यन्ति स्म नृत्ताः - कर्त्तरि कः प्रत्ययः नृत्तविधायिनः जल्लावरत्राखेलका ः मला - भुजयुद्धकारिण मौष्टिका - मल्ला एव ये मुष्टिभिः प्रहरन्ति विडम्बका - विदूषकाः मुखविकारादिभि|र्जनानां हास्योत्पादकाः कथकाः - सरसकथाकथनेन श्रोतृरसोत्पत्तिकारकाः प्लवका - ये झम्पादिभिर्गर्त्तादिकमुत्प्लवन्ते गर्त्तादिलङ्घनकारिणः इत्यर्थः अथवा तरन्ति नद्यादिकं ये इति लासका - ये रासकान् ददति तेषां प्रेक्षा, उपलक्षणादाख्यायक प्रेक्षादिग्रहः, अत्रोत्तरं - नायमर्थः समर्थः, यतो व्यपगतकुतूहलास्ते मनुजाः प्रज्ञप्ताः । 'अत्थि ण' मित्यादि, अत्र शकटानि प्रतीतानि रथाः - क्रीडारथादयः यायन्ते - गम्यन्ते एभिरिति व्युत्पत्त्या यानानि - उक्तवक्ष्यमाणातिरिकानि गन्त्र्यादीनि युग्यं - पुरुषोत्क्षिप्तमाकाशयानं जम्पानमित्यर्थः 'गिल्लि'त्ति पुरुषद्वयोत्क्षिप्ता डोलिका 'थिल्लि'त्ति | वेसरादिद्वय विनिर्मितो यानविशेषः शिबिका-प्रतीता स्यन्दमानिका - पुरुषायामप्रमाणः शिबिकाविशेषः, अत्र प्रतिवचः
For Private & Personal Use Only
२वक्षस्कारे प्रथमारके - नरावासा
दिव. सू. २३-२४
॥१२३॥
jainelibrary.org