________________
Jain Education Inte
लोप इति । 'अत्थि ण' मित्यादि, माता या प्रसूते पिता यो बीजं निषिक्तवान् भ्राता यः सहजातो भगिनी सहजाता भार्या - भोग्या जन्यः पुत्रः जन्या स्त्री दुहिता स्नुषा-पुत्रवधूः, अत्र भगवानाह - हन्तेत्यादि, नैव चः पुनरर्थे तेषा मनुजानां तीव्रं - उत्कटं प्रेमरूपं बन्धनं समुत्पद्यते, तथाविधक्षेत्रस्वभावात् प्रतनुप्रेमबन्धास्ते युग्मिन इति, ननु चतुर्षु कुटुम्बमनुष्येषु स्नुषासम्बन्धो यथा आपेक्षिकस्तथा भ्रातृव्यभागिनेयादिसम्बन्धः कथं न सम्भवी ?, उच्यते, कुबेरदत्त| कुबेरदत्तास्वकभाववत् सोऽप्युपलक्षणाद् ग्राह्यः परं स्फुटव्यवहारत्वेनेम एव सम्बन्धाः, 'अत्थि ण' मित्यादि, अरि:| सामान्यतः शत्रुः वैरिको - जातिनिबद्धवैरोपेतः घातको - योऽन्येन घातयति वधकः - स्वयं हन्ता व्यथको वा-चपेटादिना ताडकः प्रत्यनीकः - कार्योपघातकः प्रत्यमित्रो - यः पूर्वं मित्रं भूत्वा पश्चादमित्रो जातः अमित्रसहायो वा १, इहाचार्यः -नायमिति, यतो व्यपगतो वैरजन्योऽनुशयः - पश्चात्तापो येभ्यस्ते तथा, वैरं कृत्वा हि तदुत्थफलविपाके पुमाननुशेते इति । 'अत्थि ण' मित्यादि, अत्र मित्रं - स्नेहास्पदं वयस्यः - समानवयाः गाढतरस्नेहास्पदं ज्ञातकः - स्वज्ञातीयः यद्वा ज्ञातक:| संवासादिना ज्ञातः सहजपरिचित इत्यर्थः सङ्घाटिकः - सहचारी सखा - समानखादनपानो गाढंतमस्नेहास्पदं सुहृद्| मित्रमेव सकलकालमव्यभिचारि हितोपदेशदायि च साङ्गतिकः - सङ्गतिमात्रघटितः, इन्तेत्यादि पूर्ववत्, न चैव तेषां मनुजानां तीव्रं रागरूपं बन्धनं समुत्पद्यते । 'अत्थि ण' मित्यादि, अत्र चाह - आहूयन्ते स्वजनास्ताम्बूलदानाय यत्र स आवाहो - विवाहात् पूर्वं ताम्बूलदानोत्सवः विवाहः - परिणायनं यज्ञः - प्रतिदिवसं स्वस्वेष्टदेवतापूजा श्राद्धं पितृक्रिया
For Private & Personal Use Only
lainelibrary.org