SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ तन्त्र्यमुक्तं, ग्रामनगरादिव्यवस्थायांतु नियताश्रयत्वेन तेषामिच्छानिरोधः स्यात्, जीवाभिगमे तु 'जहेच्छिअकामगामिणो'। | इत्यस्य स्थाने 'जं नेच्छिअकामंगामिणो' इति पाठः, तत्रायमर्थः-यद्-यस्मान्नेप्सितकामगामिनः न इच्छित-इच्छाविषयीकृतंनेच्छितं, नायं नकिन्तु नशब्द इत्यनादेशाभावः, यथा 'नके द्वेषस्य पर्याया' इत्यत्र, नेच्छितं-इच्छाया अविषयीकृतं काम-वेच्छया गच्छन्तीत्येवंशीला नेच्छितकामगामिनस्ते मनुजा इति, यद्यपि गृहसूत्रेणैवार्थापत्त्या ग्रामाद्यभावः सूचि-18 तस्तथाप्यव्युत्पन्नविनेयजनव्युत्पत्त्यर्थमेतत्सूत्रोपन्यासः, 'अत्थि णमित्यादि, अत्रासि:-खगः यमुपजीव्य जनः सुख|त्तिको भवति यद्वा साहचर्यलक्षणया असिशब्देन अत्र अस्युपलक्षिताः पुरुषा गृह्यन्ते, एवमग्रेतनविशेषणेष्वपि यथायोग ज्ञेय, मषी यदुपजीवनेन लेखककला, कृषिः-कर्षणं वणिक्-पण्याजीवः पणितं-क्रयाणकं वाणिज्य-सत्यानुतमर्पणग्रहणा|दिषु न्यूनाधिकाद्यर्पणमित्यर्थः १, नायमर्थः समर्थः, यतस्ते व्यपगतानि असिमपीकृषिवणिक्पणितवाणिज्यानि येभ्यस्ते तथा मनुजाः प्रज्ञप्ता इति। 'अस्थि ण'मित्यादि, हिरण्यं-रूप्यमघटितसुवर्ण वा सुवर्ण-घटितं कांस्य-प्रतीतं दृष्यंवस्त्रजातिः मणि:-चन्द्रकान्तादिः मौक्तिक-व्यक्तं शो-दक्षिणावर्त्तादिः शिला-गन्धपेषणादिका प्रवालं-प्रतीतं रतरत्नानि-पद्मरागादीनि स्वापतेयं-रजतसुवर्णादिद्रव्यं, ननु यदि हिरण्यं रूप्यं तदा रूप्यखानी तत्सम्भवः यदि चाघटितसुवर्ण तदा सुवर्णखानी परं घटितं सुवर्ण तथा तानपुसंयोगजं कांस्यं तथा तन्तुसन्तानसम्भवं दुष्यं तत्र कथं सम्भवेयुः ?, शिल्पिप्रयोगजन्यत्वात् तेषां, न च तान्यत्रातीतोत्सर्पिणीसत्कनिधानगतानि सम्भवंतीति वाच्यं, Jan Education inel For P ate Personal use only O w .jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy