________________
Jain Education In
यावत्करणात्कान्ततरिका चैव प्रियतरिका चैवेति परिग्रहः, मनआपतरिका एव आस्वादेन प्रज्ञप्ता इति, अथ पुष्पफलानामावादं पृच्छन्नाह - 'तेसि ण' मित्यादि, तेषां - पुष्पफलानां कल्पद्रुसम्बन्धिनां कीदृशः - क आस्वादः प्रज्ञप्तो, यानि | पूर्वसूत्रे युग्मिनामाहारत्वेन व्याख्यातानीति गम्यं, भगवानाह - गौतम ! तद्यथा नाम राज्ञः, स च राजा लोके कतिपयदेशाधीशोऽपि स्यादत आह- चतुर्व्वन्तेषु समुद्रत्रयहिमवत्परिच्छिन्नेषु चक्रेण वर्त्तितुं शीलमस्येति चतुरन्तचक्रवर्त्ती, 'अतः समृद्ध्यादौ वे' (श्रीसि० ८-१-४४) त्यनेन दीर्घत्वं, अनेन वासुदेवतो व्यावृत्तिः कृता, तस्य कल्याणं- एकान्तसुखावहं भोजन जातं - भोजनविशेषः शतसहस्रनिष्पन्नं- लक्षव्ययनिष्पन्नं, वर्णेनातिशायिनेति गम्यते, अन्यथा सामान्यभो| जनस्यापि वर्णमात्रवत्ता सम्भवत्येवेति किमाधिक्यवर्णनं १, उपपेतं युक्तं, यावदतिशायिना स्पर्शेनोपपेतं यावत् | गन्धेन रसेन चातिशायिनोपपेतं, आस्वादनीयं सामान्येन विस्वादनीयं विशेषतस्तद्रसमधिकृत्य दीपनीयं - अभिवृद्धिकरं | दीपयति जठराग्निमिति दीपनीयं, बाहुलकात्कर्त्तर्यनीयप्रत्ययः, एवं दर्पणीयमुत्साहवृद्धिहेतुत्वात्, मदनीयं - मन्मथजनकत्वात् बृंहणीयं धातुपचयकारित्वात् सर्वाणि इन्द्रियाणि गात्रं च प्रह्लादयतीति सर्वेन्द्रियगात्रप्रह्लादनीयं वैशद्यहेतुत्वात्तेषां एवमुक्तो गौतम आह-भगवन् ! भवेदेतद्रूपस्तेषां पुष्पफलानामास्वादः १, भगवानाह - गौतम ! नायमर्थः | समर्थ:, तेषां पुष्पफलानामितः - चक्रवर्त्तिभोजनादिष्टतरकादिरेवास्वादः, अत्र कल्याणभोजने सम्प्रदाय एवं - चक्रवर्त्तिसम्बन्धिनीनां पुंड्रेक्षुचारिणीनामनातङ्कानां गवां लक्षस्याद्धार्द्धक्रमण पीतगोक्षीरस्य पर्यन्ते यावदेकस्याः गोः सम्बन्धि
For Private & Personal Use Only
vw.jainelibrary.org