SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ॥११७॥ Jain Education Inte | नीरोगवर्चस्कतया येषां ते तथा, कपोतस्येव - पक्षिविशेषस्येव परिणाम: - आहारपरिपाको येषां ते तथा, कपोतस्य हि | जाठराग्निः पाषाणलवानपि जरयतीति लौकिकश्रुतिः एवं तेषामप्यत्याहारग्रहणेऽपि न जातुचिदजीर्णदोषादयः, शंकुनेरिव-पक्षिण इव पुरीषोत्सर्गे निर्लेपतया पोस:- अपानदेशो येषां ते तथा, 'पुस उत्सर्गे' पुरीषमुत्सृजन्त्यनेनेति व्युत्पत्तेः, | तथा पृष्ठ-शरीरपृष्ठभागः अन्तरे- पृष्ठोदरयोरन्तराले पार्श्वे इत्यर्थः ऊरू च- सक्थिनी इति द्वन्द्वः, एतानि परिणतानि| परिनिष्ठिततां गतानि येषां ते तथा, कान्तस्य परनिपातः सुखादिदर्शनात्, ततः पदद्वयस्य २ कर्मधारयः, यथोचित| परिणामेन तानि सञ्जातानीत्यर्थः, षड्धनुःसहस्रोच्छ्रिताः, अत्रापि मकारोऽलाक्षणिकः, उत्सेधाङ्गुलतस्त्रिगव्यूतप्रमाणकाया इत्यर्थः यच्च युग्मिनीनां किश्चिदूनत्रिगव्यूतप्रमाणोच्चत्वमुक्तं तदल्पतया न विवक्षितमिति भावः । अथ तेषां वपुषि पृष्ठकरण्डकसङ्ख्यामाह - 'तेसि ण' मित्यादि, तेषां मनुष्याणां द्वे षट्पञ्चाशदधिके पृष्ठकरण्डुकशते पाठान्तरेण पृष्ठकरण्डकशते वा प्रज्ञते, पृष्ठकरण्डुकानि च - पृष्ठवंशवर्युन्नताः अस्थिखण्डाः पंशुलिका इत्यर्थः, हे श्रमणेत्यादि प्राग्वत्, पुनस्तानेव विशिनष्टि - 'पउमुप्पल' इत्यादि, ते णमिति पूर्ववत् मनुजाः पद्मं - कमलमुत्पलं- नीलोत्पलं अथवा पद्मपद्मकाभिधानं गन्धद्रव्यं उत्पलं- कुष्ठं तयोर्गन्धेन- परिमलेन सदृशः - समो यो निःश्वासस्तेन सुरभिगन्धि वदनं येषां | ते तथा, प्रकृत्या - स्वभावेनोपशान्ता नतु क्रूराः प्रकृत्या प्रतनवः - अतिमन्दीभूताः क्रोधमानमायालोमा येषां ते तथा, अत एव मृदु- मनोज्ञं परिणामसुखावहमिति भावः यन्मार्दवं तेन सम्पन्नाः न तु कपटमार्दवोपेताः, आलीना - गुरुज For Private & Personal Use Only २वक्षस्कारे प्रथमारक नरव० सू० २१ ॥११७॥ jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy