________________
बीणां चेष्टाविशेषः, आह च-"स्थानासनगमनानां हस्तभूनेत्रकर्मणां चैव । उत्पद्यते विशेषो यः श्लिष्टः स तु विलासः स्थात् ॥१॥" नन्दनवनं-मेरोद्धितीयवनं तस्य विवरं-अवकाशो वृक्षरहितभूभागस्तत्र चारिण्य इवाप्सरसो-देव्यः भरतवर्षे मानुषरूपा अप्सरसः आश्चर्य-अद्भुतमित्ति प्रेक्षणीयाः प्रासादीया इत्यादि। सम्पति स्त्रीपुंससाधारण्येन तत्कालभाविमनुष्यस्वरूपं विवक्षुरिदमाह-'ते णं मणुआ' इत्यादि, ते सुषमसुषमाभाविनो मनुष्याः ओघ:-प्रवाही स्वरो येषां ते तथा, हंसस्येव मधुरः स्वरो येषां ते तथा, क्रौञ्चस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते तथा, नन्दीद्वादशविधतूर्यसमुदयस्तस्या इव शब्दान्तरतिरोधायी स्वरो येषां ते तथा, नन्द्या इव घोषः-अनुनादो येषां ते तथा, | सिंहस्येव बलिष्टः स्वरो येषां ते तथा, एवं सिंहघोषाः; उक्तविशेषणानां विशेषणद्वारा हेतुमाचष्टे-सुखराः सुस्वरनि| पोषाः, छायया-प्रभया घोतितान्यङ्गानि-अवयवा यस्य तदेवंविधमङ्ग-शरीरं येषां ते तथा, मकारोऽलाक्षणिका, | वज्रऋषभनाराचं नाम सर्वोत्कृष्टमाद्यं संहननं येषां ते तथा, समचतुरनं संस्थानं-सर्वोत्कृष्ट आकृतिविशेषस्तेन संस्थिताः, उपांत्वचि निरातङ्काः-नीरोगाः दद्वकुष्ठकिलासादित्वग्दोषरहितवपुष इत्यर्थः, अथवा छवित्ति छविमन्तः, छविच्छविमतोरभेदोपचाराद् दीर्घत्वेन मतुब्लोपाद्वा, यथा मरीचिरित्यत्र मलयगिरीयावश्यकवृत्ती, उदात्तवर्णसुकुमारत्वचा युक्का
इत्यर्थः, पश्चान्निरातङ्कपदेन कर्मधारयः, अनुलोमः-अनुकूलो वायुवेगः-शरीरान्तर्वती वातजवो येषां ते तथा, कपोतस्य ॥ इव गुल्मरहितोदरमध्यप्रदेशाः, सति गुल्मे प्रतिकूलो वायुवेगो भवतीति भावः, कङ्क:-पक्षिविशेषस्तस्येव ग्रहणी-गुदाशया
Jain Education in
For Private Personal Use Only
Dowww.jainelibrary.org