SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ यासां तास्तथा, छत्रं १ ध्वजः २ यूपः-स्तम्भविशेषः ३ स्तूपः-पीठं ४ दामिणित्ति-रूढिगम्यं ५ कमण्डलु:-तापसपानीयपात्रं ६ कलशः ७ वापी ८ स्वस्तिकः ९ पताका १० यवो ११ मत्स्यः १२ कूर्मः १३ रथवरः १४ मकरध्वजः-काम| देवस्तत्संसूचकं सूचनीये सूचकोपचाराल्लक्षणमिति, तच्च सर्वकालमविधवत्वादिसूचकं १५ अङ्क:-चन्द्रबिम्बान्तवत्ती श्यामावयवः, क्वचिदङ्कस्थाने शुकइति दृश्यते १६ स्थालं १७ अङ्कुशः १८ अष्टापदं-द्यूतफलकं १९ सुप्रतिष्ठकंस्थापनकं २० मयूरः २१ श्रियोऽभिषेको-लक्ष्म्या अभिषेकः २२ तोरणं २३ मेदिनी २४ उदधिः २५ वरभवनं-प्रधानगृहं २६ गिरि २७ वरादर्शो-वरदर्पणः २८ सलीलगजो-लीलावान् गजः २९ ऋषभो-गौः ३०सिंहः ३१ चामरं ३२ एतान्युत्तमानि-प्रधानानि प्रशस्तानि-सामुद्रिकशास्त्रेषु प्रशंसास्पदीभूतानि द्वात्रिंशल्लक्षणानि धरन्ति यास्तास्तथा, हंसस्य | सदृशी गतिर्यासां तास्तथा कोकिलाया आरमञ्जरीसंस्कृतत्वेन पञ्चमस्वरोद्वारमयी या मधुरा गीस्तद्वत् सुष्ठ-शोभनः स्वरो यासां तास्तथा, कान्ताः-कमनीयाः सर्वस्य तत्प्रत्यासन्नवर्सिनो लोकस्यानुमता:-सम्मता न कस्यापि मनागपि द्वेष्या इति भावः, वलिः-शैथिल्यसमुद्भवश्चर्मविकारः पलितं-पाण्डुरः कचः व्यपगतानि वलिपलितानि याभ्यस्तास्तथा, तथा विरुद्धमङ्गं व्यङ्ग-विकारवानवयवः दुर्वर्णो-दुष्टशरीरच्छविः व्याधिदौर्भाग्यशोकाः प्रतीताः तैर्मुक्काः, पश्चाद्विशेषणद्वयकर्मधारयः, उच्चत्वेन च नराणां स्वभणां स्तोकोनं यथा स्यात्तथोच्छ्रिताः किञ्चिन्यूननिगव्यूतोच्छ्रया इत्यर्थः, न हि ऐदंयुगीनमनुष्यपत्य इव स्वभर्तुः समोच्चत्वा अधिकोच्चत्वा वा भवेयुः, किमुक्तं भवति ?-यथा हि सम्प्रति पुरुषस्य 202900000003892000000000 Jain Education in For Private & Personal use only ONEvjainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy