________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥११०॥
Jain Education Inte
बा - रक्ताः स्निग्धाः - स्निग्धकान्तिमन्तो नखाः पादगता इति सामर्थ्यलभ्यं तद्वर्णनाधिकारात् येषां ते तथा, णक्खेत्यत्र द्वित्वं सेवादित्वात्, संस्थितौ - सम्यक् स्वप्रमाणतया स्थितौ सुश्लिष्टौ - सुघनौ सुस्थिरावित्यर्थः गूढौ-गुप्तौ मांसल - त्वादनुपलक्ष्यौ गुल्फौ - घुटिको येषां ते तथा, एणी-हरिणी तस्या इह जङ्घा ग्राह्या, कुरुविन्दः - तृणविशेषः वर्त्त च| सूत्रवलनकं एतानीव वृत्ते वर्त्तले आनुपूर्व्येण - क्रमेण ऊर्ध्वं स्थूले स्थूलतरे इति शेषः जङ्घे येषां ते तथा, औपपातिकवृत्तौ तु अन्ये त्वाहुः एण्यः - स्नायवः कुरुविन्दः - कुटिलका भिधानो रोगविशेषस्ताभिस्त्यते इत्यपि व्याख्यातमस्ति, वृत्तेत्यादि तथैव, समुद्रः - समुद्रकाख्यभाजनविशेषस्तस्य तत्पिधानस्य च सन्धिस्तद्वन्निम गूढे - मांसलत्वादनुपलक्ष्ये जानुनी येषां ते तथा, क्वचित्समुग्ग [णिभग्ग ] गूढजाणू इति पाठस्तत्र समुद्रकस्येव - पक्षिविशेषस्येव निसर्गतो गूढे -स्वभावतो मांसलत्वादनुन्नते न तु शोफादिविकारतः शेषं तथैव, गजस्य - हस्तिनः श्वसनः - शुण्डादण्डः सुजातः - सुनिष्पअस्तस्य सन्निभा ऊरुर्येषां ते तथा, सुजातशब्दस्य विशेषणस्य परनिपातः प्राकृतत्वात्, मत्तो वरः - प्रधानो भद्रजातीयत्वाद्वारणो-हस्ती तस्य विक्रमः - चंक्रमणं तद्वद्विलासिता - विलासः सञ्जातोऽस्या इति तारकादित्वादितप्रत्ययः विलासवती गतिः - गमनं येषां ते तथा, अत्रापि मत्तशब्दस्य विशेष्यात् परनिपातः प्राकृतत्वात्, प्रमुदितो रोगाद्यभावेनातिपुष्टो यौवनप्राप्त इति गम्यते एवंविधो यो वरतुरगः सिंहवरश्च तद्वद्वर्त्तिता - वृत्ता कटीर्येषां ते तथा, वरतुरगस्येव सुजातः सुगुप्तत्वेन निष्पन्नो गुह्यदेशो येषां ते तथा, आकीर्णहय इव-जात्याश्व इव निरुपलेपाः - निरुपलेपशरीराः,
For Private & Personal Use Only
२वक्षस्कारे युग्मिस्वरू
पं सू. २१
॥११०॥
Jainelibrary.org