________________
क्रवर्तिनः ओदन इव भवेदित्यन्वयः, निपुणैः सूपपुरुषैः-सूपकारैः सजितो-निष्पादितः चत्वारः कल्पा यंत्र स चासो सेकश्च चतुष्कल्पसेकस्तेन सिक्तः, रसवतीशास्त्राभिज्ञा हि ओदनेषु सौकुमार्योत्पादनाय सेकविषयांश्चतुरः कल्पान् | विदधति, स च ओदनः किंविशिष्ट ? इत्याह-कलमशालिनिर्वर्तितः कलमशालिमय इत्यर्थः, विपक्को-विशिष्टपरिपाकमागतः सबाष्पानि-बाष्पं मुञ्चन्ति मृदुनि-कोमलानि चतुष्कल्पसेकादिना परिकर्मितत्वात् विशदानि सर्वथा तुषादिमलापगमात् सकलानि-पूर्णानि सित्थानि यत्र स तथा, अनेकानि शालनकानि-पुष्पफलप्रभृतीनि प्रसिद्धानि तैः संयुक्तः, अथवा मोदक इव भवेदिति, किंविशिष्ट? इत्याह-परिपूर्णानि-समस्तानि द्रव्याणि-एलाप्रभृतीलि. उपस्कूतानि-नियुक्तानि यत्र स तथा, निष्ठान्तस्य परनिपातः सुखादिदर्शनात् , सुसंस्कृतो-यथोक्तमात्राग्निपरितापादिना परमसंस्कारमुपनीतः वर्णगन्धरसस्पर्शाः सामर्थ्यादतिशायिनस्तैर्युक्ता बलवीर्यहेतवश्च परिणामा आयतिकाले यस्य स तथा, 81 अतिशायिभिर्वर्णादिभिर्बलवीर्यहेतुपरिणामैश्चोपेता इति भावः तत्र बलं-शारीरं वीर्य-आन्तरोत्साहः, तथा इन्द्रियाणां
चक्षुरादीनां बलं-स्वस्वविषयग्रहणपाटवं तस्य पुष्टि:-अतिशायी पोषस्तां वर्द्धयति, नन्द्यादित्वादनः, तथा क्षुत्पिपा18 सामथन इति व्यक्तं, तथा प्रधानः कथितो-निष्पक्को गुडस्तादृशं वा खण्ड तादृशी वा मत्स्यण्डी-खण्डशकरा तादृशं ४ वा घृतं तान्युपनीतानि-योजितानि यस्मिन् स तथा, निष्ठान्तस्य परनिपातः सुखादिदर्शनात्, तथा श्लक्ष्या-सूक्ष्मा। 18|| निर्वस्त्रगालितत्वेन समिता-गोधूमं चूर्ण तद्गर्भ:-तन्मूलदलनिष्पन्न इति भावः, परमेष्टक-अत्यन्तवल्लभं तदुपयोगि
Jain Education
For Private Personel Use Only
M
ainelibrary.org