________________
Jain Education In
मल्लविहीए उववेआ कुसविकुसजाव चिट्ठन्ती' ति, तस्यां समायामित्यादि प्राग्वत्, नवरं 'चित्तंगा' इति चित्रस्य अनेकप्रकारस्य विवक्षाप्राधान्यान्माल्यस्य अंगं - कारणं तत्सम्पादकत्वाद्वृक्षा अपि चित्राङ्गाः, यथा तत्प्रेक्षागृहं विचित्रं - नानाचित्रोपेतमत एव रम्यं रमयति द्रष्टृणां मनांसीति बाहुलकात् कर्त्तरि यप्रत्ययः, किंविशिष्ट इत्याह-वरकुसुमदानां मालाःश्रेणयस्ताभिरुज्वलं देदीप्यमानत्वात्, तथा भास्वान् - विकसिततया मनोहरतया च देदीप्यमानो मुक्तो यः पुष्पपु+ झोपचारस्तेन कलितं, तथा विरल्लितानि 'समूयी विस्तारे' इत्यस्य 'तमेस्तडतडतडप विरला' इत्यनेन विरल्लादेशे कृते कप्रत्यये च विरल्लितानि - विरलीकृतानि विचित्राणि यानि माल्यानि - प्रथितपुष्पमालास्तेषां यः श्रीसमुदयः - शोभानकर्षस्तेन प्रगल्भं-अतीव परिपुष्टं, तथा ग्रंथिमं यत्सूत्रेण प्रथितं वेष्टिमं यत् पुष्पमुकुटमिवोपर्युपरि शिखराकृत्या मालास्थापनं पूरिमं-यलघुच्छिद्रेषु पुष्पनिवेशेन पूर्यते सङ्घातिमं यत्पुष्पं पुष्पेण परस्परनालप्रवेशेन संयोज्यते, ततः समाहारद्वन्द्वे एवंविधेन माल्येन छेकशिल्पिना-परमदक्षिणकलावता विभागरचितेन - विभक्तिपूर्वकं कृतेन यद्यत्र योग्यं प्रन्थिमादि तत्र तेन सर्वतः सर्वासु दिक्षु समनुबद्धं, तथा प्रविरलैर्लम्बमानैः, तत्र प्रविरलत्वं मनागप्यसंहतत्वमात्रेण भवति ततो विप्रकृष्टत्वप्रतिपादनायाह - विकृष्टेः - बृहदन्तरालैः पश्चवर्णैः, ततः कर्मधारयः, कुसुमदामभिः शोभमानं, वनमालावन्दनमाला कुसाऽग्रे - अग्रभागे यस्य तस्था, तथाभूतं सद्दीप्यमानं, तथैव चित्राङ्गा अपि नाम द्रुमगणा अनेक बहुविध| विविधविकासापरिणतेन माल्यविधिनोपपेताः, 'कुसविकुसविसुद्धमूला' इत्यादि प्राग्वत् । अथ सप्तमकल्पवृक्षस्वरूप
For Private & Personal Use Only
www.jainelibrary.org