________________
श्रीजम्बूद्वीपशान्तिचन्द्रीया वृत्तिः
॥१०३॥
येषां ते तथा, ततः पूर्वपदेन विशेषणसमासः, तथैव ते ज्योतिषिका अपि दुमगणा अनेकबहुविविधविनसापरिणते
18 वक्षस्कारे नोद्योतविधिनोपपेता यावत्तिष्ठन्तीति सण्टङ्कः, ननु यदि सूर्यमण्डलादिषत्ते प्रकाशकास्वर्हि तद्वत्ते दुनिरीक्ष्यत्वतीव्रत्व- कल्पवृक्षाजङ्गमत्वादिधर्मोपेता अपि भवन्तीत्साह-सुखा-सुखकारिणी लेश्या-तेजो येषां ते तथा अत एवं मन्दलेश्यास्तथा मन्दा- वि०सू.२१ तपस्य लेश्या-जनितप्रकाशस्य लेश्या येषां ते तथा, सूर्यानलाद्यातपस्य तेजो यथा दुस्सहं न तथा तेषामित्यर्थः, तथा कूटानीव-पर्वतादिशृङ्गाणीव स्थानस्थिता:-स्थिरा इति, समयक्षेत्रबहिवर्तिज्योतिष्का इव तेऽवभासयन्तीति भावा, तथाऽन्योऽन्यं-परस्परं समवगाढाभिर्लेश्याभिः सहिता इति शेषः, किमुक्तं भवति ?-यत्र विवक्षिता ज्योतिषिकाख्यतरुलेश्या अवगाढा तत्रान्यस्य लेश्याऽवगाढा यत्रान्यतरुलेश्या अवगाढा तत्र विवक्षिततरुलेश्या अवगाहा इति, 'साए पभाए'इत्यादि, 'पभासन्ती'त्यन्तं सूत्रं विजयद्वारतोरणसम्बन्धिरत्नकरण्डकवर्णने व्याख्यातमिति, 'कुशविकुशे'त्यादि पूर्ववत्, एषां च बहुव्यापी दीपशिखावृक्षप्रकाशापेक्षया तीव्रश्च प्रकाशो भवतीति पूर्वेभ्यो विशेषः । अथ षष्ठकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ २ बहवे चित्तंगा णामं दुमगणा पण्णत्ता समणाउसो !, जहा से पेच्छाघरे| विचित्ते रम्मे वरकुसुमदाममालुजले भासंतमुक्तपुप्फपुंजोवयारकलिए विरल्लिअविचित्तमल्लसिरिसमुदयप्पगन्भे गंठिम-31 वेडिमपूरिमसंघाइमेण मल्लेणं छेअसिप्पिविभागरइएणं सवओ चेव समणुबद्धे पविरललंबंतविप्पइट्टपंचवण्णेहिं कुसुमदामेहिं सोभमाणे वणमालकयग्गए चेव दिप्पमाणे, तहेव ते चित्तंगावि दुमगणा अणेगबहुविविहवीससापरिणयाए
Jain Education in
For Private
Hamw.jainelibrary.org
a
Personel Use Only