SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ | तहेव ते जोइसिआवि दुमगणा अणेगबहुविविहवीससापरिणयाए उज्जोअविहीए उववेया सुहलेसा मंदलेसा मंदायवलेसा । कूडा इव ठाणहिआ अन्नोन्नसमोगाढाहिं लेसाहिं साए पहाए ते पएसे सवओ समंता ओहासेंति उज्जोअंति पभा| संति कुसुम जाव चिटुंतीति, अत्र व्याख्या-तस्यां समायां 'तत्थे'त्यादि पूर्ववत्, ज्योतिषिका नाम दुमगणाः प्रज्ञप्ता | इत्यन्वययोजना, नामान्वर्थस्त्वयं-ज्योतींषि-ज्योतिष्का देवास्त एव ज्योतिषिकाः, अत्र मतान्तरेण स्वार्थे इकप्रत्ययः, | 'उणादयोऽव्युत्पन्नानि नामानी'त्यव्युत्पत्तिपक्षाश्रयणादिसुप्रत्ययान्तत्वाभावादिकारलोपाभावश्च सम्भाव्यते, जीवा-| | भिगमवृत्ती ज्योतिषिका इति संस्कारदर्शनातू, तत्रापि प्रधानाप्रधानयोः प्रधानस्यैव ग्रहणं, तेन अत्र ज्योतिषिक|शब्देन सूर्यों गृह्यते, तत्सदृशप्रकाशकारित्वेन वृक्षा अपि ज्योतिषिकाः, 'ज्योतिर्वहिदिनेशयोः' इति वचनाद्वा ज्योति: शब्दः सूर्यवाचको वहिवाचको वा, शेष स्वार्थिकप्रत्ययादिकं तथैव. ते च किंविशिष्टा इत्याह-यथा ते 'अचिरेत्या|दिना 'हुतवह' इत्यन्तेन सम्बन्धः, अचिरोद्गतं शरत्सूर्यमण्डलं, यथा वा पतदुल्कासहस्रं प्रसिद्धं, यथा वा दीप्य माना विद्युत् यथा वा उद्गता ज्वाला यस्य स उज्ज्वालः, तथा निर्दूमो-धूमरहितो ज्वलितो-दीप्तो हुतवहो-दहनः, । सूत्रे पदोपन्यासव्यत्ययः प्राकृतत्वात् , ततः सर्वेषामेषां द्वन्द्वः, एते च कथंभूता इत्याह-निमातं-नितरामग्निसंयोगेन ||४ 18| (शोधितमल) यद्धौत-शोधितं तप्तं च तपनीयं, ये च किंशुकाशोकजपाकुसुमानां विमुकुलिताना-विकसितानां पुञ्जा ये 8॥ [च मणिरत्नकिरणाः यश्च जात्यहिङ्गलकनिकरस्तद्पेभ्योऽतिरेकेण-अतिशयेन यथायोगं वर्णतः प्रभया च रूप-स्वरूपं | श्रीजम्बू. १८ Jain Education For Private Personel Use Only
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy