________________
श्रीजम्बू- समुदायसमुदायिनोः कथंचित् भेद इति ख्यापयन समुदायविशेषणमेव विवक्षुः समुदायिविशेषणान्याह-लोकेऽपि ॥२ वक्षस्कारे द्वीपशा- वतारो भवन्ति 'यदियं जन्ययात्रा महर्द्धिकजनैराकीर्णेति 'कंचणे'त्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः, कथंभू
कल्पद्रुमान्तिचन्द्री-18
धिकारः ताभिदीपिकाभिरत आह-काञ्चनमणिरत्नमयाः विमला:-स्वाभाविकागन्तुकमलरहिता महाहा-महोत्सवाहोः तपनीयंया वृत्तिः
सू.२० सुवर्णविशेषस्तेनोज्वला-दीप्ताः विचित्रा-विचित्रवर्णा दण्डाः यासां तास्तथा ताभिः सहसा-एककालं प्रज्वालिताश्च ॥१०२॥ ता उत्सर्पिताश्च वय॒त्सर्पणेन तथा स्निग्धं-मनोहरं तेजो यासां तास्तथा, दीप्यमानो रजन्यां भास्वान् विमलोऽत्र
धूल्याद्यपगमेन ग्रहगणो-ग्रहसमूहस्तेन समा प्रभा यासां तास्तथा ताभिः, ततः पदद्वय २ मीलनेन कर्मधारयः, तथा वितिमिराः कराः यस्यासौ वितिमिरकरो-निरन्धकारकिरणः स चासौ सूरश्च तस्येव यः प्रसृत उद्योतः-प्रभासमूहस्तेन चिल्लिआहिंति-देशीपदमेतत् दीप्यमानाभिरित्यर्थः, ज्वाला एव यदुज्वलं प्रहसितं-हासस्तेनाभिरामा-रमणीयास्ताभिः, अत एव शोभमानं, तथैव ते दीपशिखा अपि द्रुमगणा अनेकबहुविविधविनसापरिणतेनोद्योतविधिनोपपेताः, यथा दीपशिखा रात्रौ गृहान्तरुद्योतन्ते दिवा वा गृहादौ तद्वदेते द्रुमा इत्याशयः, एवं च वक्ष्यमाणज्योतिषिकाख्यद्रुमेभ्यो विशेषः कृतो भवतीति, शेष प्राग्वत् । अथ पञ्चमकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ २ बहवे जोइसिआ ॥१०२॥ णामं दुमगणा पण्णत्ता समणाउसो ! जहा से अइरुग्गयसरयसूरमण्डलपडतउक्कासहस्सदिप्पंतविज्जुजलहुअवहणिभूमजलिअणिदंतधोअतत्ततवणिजकिंसुआसोअजासुअणकुसुमविमउलिअपुंजमणिरयणकिरणजञ्चहिंगुलयणिगररूवाइरेगरूवा
Reme
Jan Education Intallonal
For Private Porn Use Only
www.jainelibrary.org