SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Jain Education In यनादि नाम, तन्निक्षेपोऽनुयोगद्वारादिभ्योऽवसेयः, तत्रेह भावाध्ययनादिनाऽधिकारः, नामनिष्पन्ने तु निक्षेपेऽस्य जम्बूद्वीपप्रज्ञप्तिरिति नाम, ततो जम्बूशब्दस्य प्रज्ञप्तिशब्दस्य च निक्षेपो वाच्यः, तत्र जम्बूशब्दस्य नामस्थापनाद्रव्यभाव| भेदात् चतुर्धा निक्षेपः, तत्र नामजम्बूर्यस्य जम्बूरिति नाम, यथा जम्बूरन्तिमकेवली जम्ब्वा अभिधानं वा, स्थापनाजम्बूर्या जम्बूरिति स्थापना क्रियते यथा चित्रलिखितजम्बूवृक्षादिः, द्रव्यजम्बूर्द्विधा - आगमतो नोआगमतश्च, आगमतस्तदर्थज्ञाताऽनुपयुक्तो, नोआगमतो ज्ञशरीरभव्यशरीरोभयव्यतिरिक्तभेदात् त्रिधा, तत्राद्यौ भेदौ सुप्रतीतौ, उभयव्यतिरिक्तद्रव्यजम्बूरपि त्रिधा - एकभविकबद्धायुष्काभिमुखनामगोत्रजन्तुभेदात्, तत्रैकभविको नाम य एकभवानन्तरं जम्बूत्वेनोत्पत्स्यते, बद्धायुष्कस्तु येन जम्ब्वायुर्बद्धं, अभिमुखनामगोत्रस्तु यस्य जम्ब्वा नामगोत्रकर्मणी अन्तर्मुहूर्त्तानन्तरमुदयमायास्यत इत्ययं त्रिविधोऽपि भाविभावजम्बूकारणत्वाद्रव्यजम्बूरिति, भावजम्बूरपि द्विधा - आगमतो नोआगमतश्च तत्रागमतो ज्ञातोपयुक्तः, नोआगमतस्तु जम्बूद्रुम एव जम्बूद्रुमनामगोत्रकर्मणी वेदयन्निति, आह-यथा अभिमुखजम्बू भावस्य जीवस्य द्रव्यजम्बूत्वं 'भाविनि भूतवदुपचार' इति न्यायात् तथा आसन्नपश्चात्कृतजम्बू भावस्यापि 'भूतपूर्वकस्तद्वदुपचार' इति न्यायात् कथं न द्रव्यजम्बूत्वं निर्दिष्टं १, उच्यते, इदमुपलक्षणं, तेन तस्यापि द्रव्यनिक्षेप एवान्तर्भावः 'भूतस्य भाविनो वेत्यादिद्रव्यलक्षणस्य सद्भावात्, अत्रानिर्देशकारणं तु श्रीउत्तराध्ययनद्रुमपत्रीयाध्ययननिर्युक्तौ श्रीभद्रबाहुस्वामिपादैः द्रुमनिक्षेपेऽविवक्षणं तत्तुल्यन्यायत्वादस्य निक्षेपस्येति, प्रस्तुते च नोआगमतो भावज - For Private & Personal Use Only www.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy