________________
श्रीजम्बून्तिचन्द्रीया वृत्तिः
द्वीपशा
म्ब्वा अधिकारः। द्वीपोऽपि पूर्ववञ्चतुर्दा, तत्र नामद्वीपो यस्य द्वीप इति नाम, स्थापनाद्वीपो या द्वीपस्य स्थापना, यथा
प्रस्तावना. चित्रलिखितजम्बूद्वीपादिः, द्रव्यद्वीपो द्विधा-आगमतो नोआगमतश्च, तत्र आगमतस्तदर्थज्ञाताऽनुपयुक्तः, नोआगमतस्तु ज्ञशरीरभव्यशरीरद्रव्यद्वीपी सुबोधौ, तद्व्यतिरिक्तद्रव्यद्वीपो द्विधा-सन्दीनोऽसन्दीनश्च, तत्र यो हि संदीयते-जलप्लावनात् पक्षमासादावुदकेन प्लाव्यते स सन्दीनो विपरीतस्त्वसन्दीनः सिंहलद्वीपादिः, भावद्वीपोऽपि द्विधा-आगमतो। नोआगमतश्च, तत्रागमतस्तदर्थज्ञानोपयुक्तः, नोआगमतस्तु साधुः, कथमित्याह-यथा हि नदीसमुद्रबहुमध्यप्रदेशे सांयात्रि
का द्रव्यद्वीपमवाप्याऽऽश्वसन्ति तथा पारातीतसंसारपारावारान्तरचारखेदमेदस्विनो देहिनः परमपरोपकारैकप्रवृत्तं साधु | समवाप्याऽऽश्वसन्ति अतो भावतः-परमार्थतो द्वीपो भावद्वीप उच्यते, सोऽपि सन्दीनासन्दीनभेदाद् द्विधा, तत्र परीषहोपसर्गाद्यैः क्षोभ्यः सन्दीनः तदितरस्त्वसन्दीनः, अथवा भावद्वीपः सम्यक्त्वं, तच्च प्रतिपातित्वादौपशमिकं क्षायोपशमिकं च सन्दीनो भावद्वीपः, क्षायिक चासन्दीन इति । ननु कचित्तत्पर्यायापन्नं वस्तु भावनिक्षेपे निक्षिप्यते यथाऽत्रैव जम्बूपर्यायमनुभवन् भावजम्बूत्वेन निक्षिप्तः, क्वचित्तदन्यपर्यायापन्नं वस्तु भावनिक्षेपे निक्षिप्यते, यथाऽत्रैव भावद्वीपपर्यायमनुभवन् साधुः सम्यक्त्वं चेति परस्परमुदाहरणवैषम्यं कथं युक्तिमदिति ?, अत्रोच्यते, वस्तुगत्या तत्पर्यायाधारतया भवनं भाव इतिकृत्वा तत्पर्यायधार्येव वस्तु भावनिक्षेपे निक्षिप्यते, यत्तु तदन्यद्वस्तु भावनिक्षेपे निक्षिप्यते तत्तद्गत
जा॥८ [भावगत ] गुणारोपादौपचारिकमिति न दोषः, विवक्षाया विचित्रत्वादिति, प्रस्तुते च द्विधा गता लवणोदस्य आपो
racetc.seccceedeo
॥८॥
Jain Education
a
l
For Private
Personal Use Only
wibraryong