SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बूद्वीपशान्तिचन्द्री - या वृतिः ॥१००॥ Jain Education Inter भिन्नक्रमेण योजनात्, तथास्वरूपेणैव न त्वन्यादृशेन मद्यविधिना - मद्यप्रकारेणोपपेतास्ते मत्ताङ्गा अपि द्रुमगणा इति भावः, अन्यथा दृष्टान्तयोजना न सम्यग्भवतीति, किंविशिष्टेन मद्यविधिनेत्याह- अनेको व्यक्तिभेदाद्वहु-प्रभूतं यथा स्यात् तथा विविधो जातिभेदतो नानाविध इति भावः, स च केनापि कल्पपालादिना निष्पादितोऽपि सम्भाव्यते तत आह-विस्रसया-स्वभावेन तथाविधक्षेत्रादिसामग्रीविशेषजनितेन परिणतो न पुनरीश्वरादिना निष्पादित इति, तत पदत्रयस्य पदद्वय २ मीलनेन कर्मधारयः, सूत्रे च स्त्रीत्वनिर्देशः प्राकृतत्वात्, ते च मद्यविधिनोपपेता न तालादिवृक्षा इवाङ्कुरादिषु किन्तु फलादिषु तथा चाह - फलेषु पूर्णाः मद्यविधिभिरिति गम्यं, सप्तम्यर्थे तृतीया प्राकृतत्वात्, विष्यंदन्ति - श्रवन्ति सामर्थ्यात्तानेवानन्त रोदितान् मद्यविधीन् क्वचिद्विसट्ठन्तीति पाठः, तत्र विकसन्तीति व्याख्येयं, किमुक्तं भवति १-तेषां फलानि परिपाकागतमद्यविधिभिः पूर्णानि स्फुटित्वा २ तान् मद्यविधीन् मुञ्चन्तीति भावः, शेषं तथैव । अथ द्वितीयकल्पवृक्षजातिस्वरूपमाख्यातुमाह- 'तीसे णं समाए तत्थ २ तहिं २ बहवे भिंगंगाणाम दुमगणा पण्णत्ता समणाउसो ! जहा से वारगघडगकलसकरगकक्करिपायं चणिउदकवद्धणिसुपइट्ठगविट्ठरपारीचसकभिंगा|रकरोडिसरगपत्तीथालणल्लगचवलिअअवमददगवारग विचित्तवट्टगमणिवदृगसुत्तिचारुपीणयाकंचणमणिरयणभत्तिचित्ता | भायणविही य बहुप्पगारा तहेव ते भिंगंगावि दुमगणा अणेगबहुविहवीससापरिणयाए भायणविहीए उववेआ फलेहिं | पुण्णाविव विसद्वंती 'ति तस्यां समायां तत्रेत्यादि प्राग्वत् भृतं भरणं पूरणमित्यर्थः तत्राङ्गानि - कारणानि, न हि भरण For Private & Personal Use Only २वक्षस्कारे कल्पद्रुमा घिकारः सू. २० ॥१००॥ sinelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy