________________
Jain Education Intek
| कुसविकुसविसुद्ध रुक्खमूला जाव छन्नपडिच्छन्ना सिरीइ अईव उवसोभेमाणा२चिती' ति अत्र व्याख्या - इदं च संकेतवाक्यं अपरेष्वपि व्याख्यास्यमानकल्पद्रुमसूत्रेषु बोध्यं, चन्द्रस्येव प्रभा-आकारो यस्याः सा चन्द्रप्रभा मणिशिलाकेव मणिशिलाका वरं च तत्सीधु व २ वरा चासौ वारुणी च वरवारुणी तथा सुजातानां सुपरिपाकागतानां पुष्पानां फलानां चोयस्य- गन्धद्रव्यस्य यो निर्यासो-रसस्तेन साराः तथा बहूनां द्रव्याणामुपबृंहणकानां युक्तयो-मीलनानि तासां सम्भार:प्राभूत्यं येषु ते तथा काले- स्वस्वोचिते सन्धितदङ्गभूतानां द्रव्याणां सन्धानं योजनमित्यर्थः तस्माज्जायन्ते इति कालसन्धिजाः, एवंविधाश्च ते आसवाः, किमुक्तं भवति ? - पत्रादिवासकद्रव्यभेदादनेकप्रकारो ह्यासवः पत्रासवादिरनेन निर्दिष्टो भवतीति, ततः पदद्वयपदद्वयमीलनेन विशेषणसमासः, मधुमेरको मद्यविशेषौ रिष्ठाभा - रिष्ठरत्नवर्णाभा या शास्त्रान्तरे जम्बूफलकलिकेति प्रसिद्धा दुग्धजातिः - आस्वादतः क्षीरसदृशी प्रसन्ना - सुराविशेषः तल्लकोऽपि सुराविशेषः शतायुर्नाम या शतवारं शोधितापि स्वस्वरूपं न जहाति सारशब्दस्य प्रत्येकं योजनात् खर्जूरसारनिष्पन्न आसवविशेषः खर्जूरसारः, मृद्वीका - द्राक्षा तत्सारनिष्पन्न आसवो मृद्वीकासारः कपिशायनं मद्यविशेषः सुपक्कः - परिपाकागतो यः | क्षोदरसः - इक्षुरसस्तन्निष्पन्ना वरसुरा, एते सर्वेऽपि मद्यविशेषाः पूर्वकाले लोकप्रसिद्धा इदानीमपि शास्त्रान्तरतो लोकतो वा यथास्वरूपं वेदितव्याः, कथंभूता एते मद्यविशेषा इत्याह-वर्णेन प्रस्तावादतिशायिना एवं गन्धेन रसेन स्पर्शेन च युक्ता - सहिता बलहेतवो वीर्यपरिणामा येषां ते तथा बहवः प्रकारा जातिभेदेन येषां ते बहुप्रकाराः, तथैवेतिपदं
For Private & Personal Use Only
jainelibrary.org