________________
श्रीजम्बू. १७
Jain Educatio
ज्ञेयं, अथ सागरोपमस्वरूपं गाथापद्येनाह - 'एएसिं पलाण' मित्यादि, एतेषामनन्तरोदितानां पत्यानामिति पदैकदेशे | पदसमुदायोपचारात् पल्योपमानां या दशगुणिता कोटाकोटिर्भवेत् तत्सागरोपमस्यैकस्य भवेत् परिमाणमिति, प्रायः सर्व कण्ठ्यं, नवरमेतेन सागरोपमप्रमाणेन न न्यूनाधिकेनेत्यर्थः चतस्रः सागरोपमकोटाकोव्यः कालः सुषमसुषमाप्राग्व्यावर्णितान्वर्था, अयमर्थः - चतुः सागरोपमकोटाकोटीलक्षणः कालः प्रथम आरक इत्युच्यते, 'बायालीस 'त्ति या च | सागरोपमकोटाकोट्येका द्विचत्वारिंशत्सहस्रैरूनैवोनिका असौ कालश्चतुर्थोऽरकः, सा दुष्पमासत्कैरेकविंशतिसहस्रैर्दुष्षमदुष्पमासत्कैरेकविंशतिसहस्रैश्च वर्षाणां पूरणीया, तेन पूर्णा कोटाकोव्येका भवति, अवसर्पिणीकालस्य दशसागरकोटाकोटी पूरिका भवतीत्यर्थः, एवं प्रतिलोममिति - पश्चानुपूर्व्या ज्ञेयं, अवसर्पिणीयुक्ता उत्सर्पिणी अवसर्पिणीउत्सर्पिणी कालचक्रमित्यर्थः । उक्तं भरते कालस्वरूपं, अथ काले भरतस्वरूपं पृच्छन्नाह - तत्राप्यवसर्पिण्या वर्त्तमानत्वेनादौ सुषमसुषमायां प्रश्नः
जंबुद्दीवे णं भंते दीवे भरहे वासे इमीसे उस्सप्पिणीए सुसमसुसमाए समाए उत्तकट्ठपत्ताए भरहस्स वासस्स केरिसए आयारभाव - पडोयारे होत्या ?, गो० ! बहुसमरमणिज्जे भूमिभागे होत्था से जहाणामए आलिंगपुक्खरेइ वा जाव णाणामणिपंचवण्णेहिं तणेहि य मणीहि य उवसोभिए, तंजहा - किण्हेहिं जाव सुक्किलेहिं, एवं वण्णो गंधो फासो सदो अ तणाण य मणीण य भाणिअड्डो, जाव तत्थ णं बहवे मणुस्सा मणुस्सीओ अ आसयंति सयंति चिद्वंति णिसीअंति तुअट्टंति हसति रमंति ललंति, तीसे णं समाए भरहे
For Private & Personal Use Only
www.jainelibrary.org