________________
श्रीजम्बूद्वीपशा
eeeeeese
कतिपयपरिशाटनमण्यङ्गीकृत्य न विध्वंसं गच्छेयुः अर्थवशाद्विभक्तिपरिणाम इति, तानि नाग्निदहेत् न वायुरपहरेदतीव श२ वक्षस्कारे |निचितत्वादग्निपवनावपि तत्र न क्रमेते इत्यर्थः, तानि च न पूतितया-पूतिभावं कदाचिदागच्छेयुः, न कदाचिहुर्ग-1
पल्योपमन्तिचन्द्री
प्ररूपणा धितां प्राप्नुयुरित्यर्थः, अथ केतिकर्त्तव्यता ?, तामेवाह-ततस्तेभ्यो वालाग्रेभ्योऽथवा 'तत' इति तथाविधपल्यभरया वृत्तिः
विघपल्यभर- सू. १९ णानन्तरं वर्षशते २ एकैक वालाग्रमपहृत्य कालो मीयेत इति शेषः, ततश्च यावता कालेन स पल्यः क्षीणो-बालाप्रक॥९६॥ पणात् क्षयमुपागतः आकृष्टधान्यकोष्ठागारवत्, तथा (नीरजाः)-निर्गतरजःकल्पसूक्ष्मवालानोऽपकृष्टधाम्यरजःको
ष्ठागारवत् , निर्लेपोऽत्यन्तसंश्लेषात्तन्मयतागतवालाग्रलेपापहारादपनीतधान्यलेपकोष्ठागारवत् , निष्ठितोऽपनेतव्यद्रव्यापनयनमाश्रित्य निष्ठां गतः विशिष्टप्रयत्नप्रमार्जितकोष्ठागारवत् , एकार्थिका वा एते शब्दा अत्यन्त विशुद्धिप्रतिपादनपराः, वाचनान्तरे दृश्यमानं चान्यदपि पदमुक्तानुसारतो व्याख्येयं, तदेतत्पल्योपममिति, इदं च पल्यगतवालाग्राणां A सङ्ख्येयैरेव वर्षेस्तदपहारसम्भवात् संख्येयवर्षकोटाकोटीमानं बादरपल्योपमं ज्ञेयं, न चानेनात्र वक्ष्यमाणसुषमसुषमादि
कालमानादावधिकारः, परं सूक्ष्मपल्योपमस्वरूपसुखप्रतिपत्तये प्ररूपितमिति ज्ञायते, तेन पूर्वोक्कमेकैकवालाग्रमसंख्येयखण्डीकृत्य भृतस्योत्सेधाजलयोजनप्रमाणायामविष्कम्भावगाहस्य पल्यस्य वर्षशते २ एकैकवालाग्रापहारेण सकलवालाप्रखण्डनिर्लेपनाकालरूपमसङ्येयवर्षकोटीकोटीप्रमाणं सूक्ष्मपल्योपम, विचित्राकृतिराचार्यस्येति सूत्रकारेणानुक्तमपि स्वयं ज्ञेयं, तेनैव च प्रस्तुतोपयोगः, अन्यथाऽनुयोगद्वारादिभिः सह विरोधप्रसङ्गादिति सर्व सुस्थं, एवमग्रे सागरोपमेऽपि
Jain Education intele
For Paws Persone
Only
wrow.dainelibrary.org.