________________
Jain Education In
प्रमाणेन यः पल्यो - धान्याश्रयविशेषः स इव सर्वत्र समत्वात्, लुप्तोपमाकः शब्द इति, योजनमायामविष्कम्भाभ्यां | समवृत्तत्वात् प्रत्येकमुत्सेधाङ्गुलनिष्पन्नयोजनं योजनमूर्ध्वोच्चत्वेन तद्योजनं त्रिगुणं सविशेषं परिरयेण, वृत्तपरिधेः किञ्चिन्न्यूनषड्भागाधिकत्रिगुणत्वात् स पल्य 'एगाहिअबेहिअ' चि षष्ठीबहुवचनलोपादेकाहिकव्याहि कत्र्याहिकाणामुत्कर्षतः सप्तरात्रप्ररूढाना - सप्तदिवसोद्गत पर्यन्तानां भृतो वालाग्रकोटीनामिति सम्बन्धः, तत्र मुण्डिते शिरस्येकेनाह्रा यावत्प्रमाणा वालाग्रकोटय उत्तिष्टन्ति ता एकाहिक्यः, द्वाभ्यां तु यास्ता व्याहिक्याः, त्रिभिस्तु त्र्याहिक्यः, कथंभूत् इत्याह- 'संमृष्ट' आकर्णपूरितः 'सन्निचितः प्रचयविशेषान्निबिडीकृतः वालानामग्रकोटयः - प्रकृष्टा विभागा इत्यर्थः, यद्वा वालाग्रकोटीनामिति वालेषु - विदेहनरवालाद्यपेक्षया सूक्ष्मत्वादिलक्षणोपेततयाऽप्राणि-श्रेष्ठानि वालाप्राणि, कुरुनररोमाणि तेषां कोटयः अनेकाः - कोटाकोटिप्रमुखाः सङ्ख्याः "स्त्रीणां शतानि शतशो जनयन्ति पुत्रान्" इत्यादिवत् | तथा वालाग्रकोटीनामिति तृतीयार्थे षष्ठी यथा माषाणां भृतः कोष्ठ इति, तेन वालाग्रकोटीभिर्भूत इति सुखावबोधाऽक्षरयोजना कार्या इंति, वालाग्रसङ्ख्यानयनोपायस्त्वयं - देवकुरूत्तरकुरुनर वालाग्रतोऽष्टगुणं हरिवर्षरम्यकनरवालाग्र मिति, यत्रैकं हरिवर्षरम्यकनरवालाग्रं तत्र कुरुनरवालाग्राण्यष्ट तिष्ठन्ति, यत्र चैकं हैमवत हैरण्यवतनरवालानं तत्र कुरुनरवालाग्राणि चतुःषष्टिः, एवं विदेहनरवालाग्रे ५१२ लिक्षायां : ४०९६ यूकायां ३२७६८ यवमध्ये २६२१४४ अङ्गुलेङ्कतः २०९७१५२, अत्राङ्गुलमुत्सेधाङ्गुलं ग्राह्यं, आत्माङ्गुलस्यानियतत्वात् प्रमाणाङ्गुलस्यातिमात्रत्वात्, अत्र सर्वत्र
For Private & Personal Use Only
w.jainelibrary.org