________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ९४ ॥
Jain Education In
समुच्चये, एवं श्लक्ष्णश्लक्ष्णिकेति वा इत्यादिष्वपि वाच्यं एते च श्लक्ष्णश्लक्ष्णिकादयोऽङ्गुलान्ताः प्रमाणभेदा यथोत्तरमष्टगुणाः सन्तोऽपि प्रत्येकमनन्तपरमाणुकत्वं न व्यभिचरन्त्यतः निर्विशेषितमप्युक्तं - 'सण्हसहिआइ वे'त्यादि, प्राक्तनप्रमाणापेक्षयाऽष्टगुणत्वेन स्थौल्यादूर्ध्वरेण्वपेक्षया त्वष्टभागप्रमाणत्वात् श्लक्ष्णश्लक्ष्णकेत्युच्यते, स्वतः परतो वा ऊर्ध्वाध स्तिर्यकूचलनधम्मों जालप्रविष्टसूर्यप्रभाभिव्यङ्गयो रेणुरूर्ध्वरेणुः त्रस्यति - पौरस्त्यादिवायुप्रेरितो गच्छति यो रेणुः स त्रसरेणुः रथगमनात् रेणुः रथरेणुः वालाग्रलिक्षादयः प्रतीताः, देवकुरूत्तरकुरुहरिवर्षरम्यकादिनिवासिमानवानां केशस्थूलताक्रमेण क्षेत्रशुभानुभावहानिर्भावनीया यावत्पूर्वविदेहापरविदेहाश्रयमनुष्याणामष्टौ वालाग्राणि एका लिक्षा, ता अष्ट यूका, अष्टौ यूका एक यवमध्यं, अष्टौ यवमध्यानि एकमङ्गुलं, एतेनाङ्गुलप्रमाणेनेति न तु न्यूनाधिकतया, षडङ्गुलानि पादः - पादस्य मध्यतलप्रदेशः, पादैकदेशत्वात् पादः, अथवा पादो हस्व चतुर्थांशः, द्वादशाङ्गुलानि वितस्ति: सुखावबोधार्थमेवमुपन्यासः, लाघवार्थं तु द्वौ पादौ वितस्तिरिति पर्यवसितोऽर्थः, अन्यथा पादसंज्ञाया नैरर्थ क्यापत्तिः, एवमग्रेऽपि चतुर्विंशतिरङ्गुलानि रलिरिति सामयिकी परिभाषा, नामकोशादौ तु 'बद्धमुष्टिर्हस्तो रलि' रिति, अष्टचत्वारिंशदङ्गुलानि कुक्षिः, षण्णवतिरङ्गुलानि एकोऽक्ष इति वा शकटावयवविशेषः दण्ड इति वा धनुरिति वा युगमिति वा- वोढस्कन्धकाष्ठं मुसलमिति वा नालिका इति वा यष्टिविशेषः, अत्र व धनुषोपयोगः, संज्ञान्तराणि तु प्रसङ्गतोऽत्र लिखितानि अन्यन्त्रोपयोगीनीति, एतेन धनुःप्रमाणेन द्वे धनुःसहस्रे गव्यूतं, चत्वारि गव्यूतानि योजनं, एतेन योजन -
For Private & Personal Use Only
२वक्षस्कारे परयोपमप्ररूपणा
सूं. १९
॥ ९४ ॥
www.jainelibrary.org