________________
Jain Education Im
| किलेति निश्चये न शक्ताः, केऽपि पुरुषा इति शेषः, तं व्यावहारिकपरमाणु सिद्धा इव सिद्धा भगवन्तोऽर्हन्त उत्पन्न| केवलज्ञाना न तु सिद्धाः सिद्धिगताः, तेषां वचनयोगासम्भवादिति, आदिं - प्रथमं प्रमाणानां - वक्ष्यमाणोत् श्लक्ष्णश्लक्ष्णिकादीनामिति, एतेन श्रद्धालून् प्रति आगमप्रमाणमभिहितं, तर्कानुसारिणः प्रति प्रयोगः - अणुपरिमाणं क्वचिद्विश्रान्तं तरतमशब्दवाच्यत्वात् महत्परिमाणवत्, यत्र च विश्रान्तं स परमाणुः, विपक्षे वस्तुनः स्थूलताऽपि नोपपद्यते, न च | व्यणुकादि नार्थान्तरमिति वाच्यं, स च सिद्ध्यन् परमनिकृष्टो निरंश एव सिद्ध्येत्, अन्यथाऽनवस्था सर्षपसुमेर्वोस्तुल्यपरिमाणापत्तिश्च ततः सिद्धः परमाणुः, ननु सिद्ध्यतु सः सूक्ष्मत्वाच्च न चक्षुराविगम्यः, परं यदनन्तैः सूक्ष्मैः परमाशुभिरेको व्यावहारिकः परमाणुरारभ्यते स चक्षुराद्यगोचरः शस्त्रच्छेदाद्यगोचरश्चेति तन्मन्दं, उच्यते, द्विविधो हि पुद्गलपरिणामः - सूक्ष्मो बादरश्च तंत्र सूक्ष्मपरिणामपरिणतानां पुद्गलानामनिन्द्रियकत्वमगुरुलघुपर्यायवत्त्वं शस्त्रच्छेदाद्यविषयत्वमित्यादयो धर्मा भवन्ति, तेन न काप्यनुपपत्तिः, श्रूयते चागमे पुद्गलानामेवं सूक्ष्मत्वासूक्ष्मत्वपरिणामो यथा द्विप्रदेशिकः स्कन्धः एकस्मिन्नभः प्रदेशे माति स एव च द्वयोरपि मातीति संकोचविकाशकृतो भेदः, दृश्यते च | लोकेऽपि पिञ्जितरुतपुञ्जलोहपिण्डयोः परिमाणभेदः, इत्यलं विस्तरेणेति, अथ प्रमाणान्तरलक्षणार्थमाह- अनन्तानां व्यावहारिकपरमाणूनां समुदयसमितिसमागमेन या परिमाणमात्रेति गम्यते सैका अतिशयेन श्लक्ष्णा श्लक्ष्णश्लक्ष्णा सैव | श्लक्ष्णश्लक्ष्णिका उत्तरप्रमाणापेक्षया उत्-प्राबल्येन श्लक्ष्णलक्ष्णिका उच्छलक्ष्णश्लक्ष्णिका, इतिरुपदशने वा उत्तरापेक्षया
For Private & Personal Use Only
wjainelibrary.org