SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ श्रीजम्बू-10 उभयोरपीति समानकक्षताद्योतनार्थ प्रत्येकं चकारः, तत्र सूक्ष्मस्य 'कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः। २वक्षस्कारे द्वीपशा-18 एकरसवर्णगन्धो द्विस्पर्शः कार्यलिङ्गश्च ॥१॥” इत्यादिलक्षणलक्षितस्यात्यन्तपरमनिकृष्टतालक्षणं स्वरूपमतिरिच्यापर। | पल्योपमन्तिचन्द्री प्ररूपणा वैशेषिकं रूपं न प्रतिपादनीयमस्तीति तं संस्थाप्यापरं स्वरूपतो निरूपयति-अनन्तानां सूक्ष्मपरमाणुरूपपुद्गलानां या वृत्तिः सम्बन्धिनो ये समुदया:-त्रिचतुरादिमेलकास्तेषां याः समितयो-बहूनि मीलमानि तासां समागमन-संयोगेनैकीभावे॥९३॥ नेतियावत् व्यावहारिकः परमाणुरेको निष्पद्यते, इदमुक्तं भवति-निश्चयनयो हि निर्विभागं सूक्ष्मं पुद्गलं परमाणुमि च्छति, यस्त्वेतैरनेकैर्जायते तं सांशत्वात् स्कन्धलेव व्यपदिशन्ति, व्यवहारनयस्तु तदनेकसङ्घातनिष्पक्षोऽपि यः शस्त्रच्छेदाग्निदाहादिविषयो न भवति तमद्यापि तथाविधस्थूलभावाप्रतिपत्तेः परमाणुत्वेन व्यवहरति, ततोऽसौ निश्चयतः। || स्कन्धोऽपि व्यवहारनयमतेन व्यावहारिकः परमाणुरुक्तः, अयं च स्कन्धत्वात् काष्ठवत् छेदादिविषयो भवतीति वादिनं | प्रत्याह-तत्र शखं न कामति-न सञ्चरति, असिक्षुरादिधारामाप्तोऽपिस न छियेत न च भिद्यतेत्यर्थः, यधनन्तैः परमा-| णुभिनिष्पन्नाः काष्ठादयः शस्त्रच्छेदादिविषया दृष्टास्तथाप्यनन्तस्यानन्तभेदत्वात्तावत्प्रमाणेन निष्पन्नोऽद्यापि सूक्ष्मत्वान शस्त्रच्छेदादिविषयतामासादयतीति भावः, एतेनाग्निदाह्यता जलार्द्रता गङ्गाप्रतिश्रोतोविहन्यमानता जलकोथादिकं ॥९३ ॥ सर्वमपि निरस्तं मन्तव्यं, सर्वेषामपि तेषां शस्त्रत्वाविशेषात्, अत्रार्थे प्रमाणमाह-शस्त्रेण सुतीक्ष्णेनापि छेत्तुं-खड्गादिना द्विधा कर्तुं भेत्तुं-अनेकधा विदारयितुं सूच्यादिना वस्त्रादिवद्वा सच्छिद्रं कर्तुं, वा विकल्पे, यं-पुद्गलादिविशेष | cesercepoeaeesecedeseedeedees Jan Education For Private Persone Use Only row.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy