SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ जिज्ञासुस्तन्मूलभूतकालविशेषप्रश्नायोपक्रमते- एगमेगे'इत्यादि, एकैकस्य मुहूर्तस्य भगवन् ! कियत्य उच्छासाद्धा उच्छासप्रमितकालविशेषा व्याख्याताः, एकस्मिन् मुहूर्ते कियन्त उच्छासा भवन्ति, उच्छासशब्देनात्रोपलक्षणशत्वादुच्छासनिःश्वासाः समुदिता गृह्यन्ते, अत्रोत्तरम्-असङ्ख्येयानां समयप्रसिद्धपटशाटिकापाटनदृष्टान्तप्रज्ञापनीयस्व रूपाणां परमनिकृष्टकालविशेषाणां समयानां समुदया-वृन्दानि तेषां याः समितयो-मीलनानि तासां समागमः-संयोग एकीभवनं तेन यत्कालमानं भवतीति गम्यते सा एका जघन्ययुक्तासङ्ख्यातकसमयप्रमाणा आवलिका इति संज्ञया । प्रोच्यते जिनैरिति शेषः, यद्यप्यसांव्यवहारिकत्वेन समयावलिके उपेक्ष्य प्रश्नसूत्रे मुहूर्तोंच्छासादिपृच्छा तथापि | केवलिप्रज्ञायाः यावदवधिपर्यन्तं धावनादुच्छासादीनां तन्निरूपणाधीननिरूपणत्वाचाचार्यस्य तयोर्निरूपणं युक्तिमशादिति, नन्वेतदुत्प्लवमानमण्डूकैर्गोकलिञ्जभरणं यतः पूर्वसमयसद्भावे उत्तरसमयस्यानुत्पन्नत्वेनोत्तरसमयसद्भावे पूर्वसमयस्य विनष्टत्वेन किमिह समुदयसमितिसमागमः सङ्गच्छते येनासङ्ख्याततत्पिण्डात्मकता आवलिकादीनां प्रोच्यते , अयं हि समुदयादिधर्मो विमात्रस्निग्धरूक्षपुद्गलादीनां न कालस्येति, सत्यं, यं यं कालविशेष प्ररूपयितुकामेन प्रज्ञा पकपुरुषविशेषेण यावन्तो यावन्तः समया एकज्ञानविषयीकृतास्तावन्तस्ते समुदयसमितिसमागता उपचर्यन्ते, अत Kएवायमौपाधिकः कालो न वास्तव इति न काचिदनुपपत्तिः, सङ्ख्येया आवलिका उच्छास:-अन्तर्मुखः पचन सङ्क्वेया आवलिका निःश्वासो-बहिर्मुखः पवनः, सङ्ख्येयत्वोपपत्तिश्चैवम्-षट्पश्चाशदधिकशतद्वयेनावलिकानामेकं भुल 000000000000000 eeeeeeeee Jain Educationpational For Pate Persone Use Only aore.jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy