________________
ee
श्रीजम्मू
द्वीपशान्तिचन्द्रीया वृत्तिः ॥८९॥
अथ क्षेत्राण्यवस्थितानवस्थितकालभेदेन द्विधा जानन्नप्यत्र साक्षादवसर्पतः शुभान् भावान् वीक्ष्य पारिशेष्यात वक्षस्कारे संभाग्यमानमनवस्थितकालं हृदि निधाय पृच्छति-'जंबुद्दीवे गं भंते' इत्यादि, जम्बूद्वीपे द्वीपे मरतवर्षे भगवन् । समयादि| कतिविधः कालः प्रज्ञप्तः १, भगवानाह-गौतम ! द्विविधः कालः प्रज्ञप्तः, तद्यथा-अवसर्पति हीयमानारकतयाऽवस-18
शीर्षप्रहेलि
कान्तव. यति वा-क्रमेणायुःशरीरादिभावान् हापयतीत्यवसर्पिणी स चासौ कालश्च २, प्रज्ञापकापेक्षया चास्या आदावुपन्यासः,8 क्षेत्रेषु भरतस्येव, उत्सर्पति-वर्द्धते आरकापेक्षया वर्द्धयति (वा) क्रमेणायुरादीन भावानित्युत्सर्पिणी स चासौ कालश्च २,18 |चकारद्वयं द्वयोरपि समानारकतासमानपरिमाणतादिज्ञापनार्थ, तदेव प्रश्नयति-'अवसर्पिणीकालः कतिविधः प्रज्ञप्तः,8 गौतम! षड्विधः प्रज्ञप्तः, तद्यथा सुष्टु-शोभनाः समाः-वर्षाणि यस्यां सा सुषमा 'निःसुवेः समसूते' (श्रीसि. १२-३ -48रिति षत्वं सुषमा चासौ सुषमा च सुषमसुषमा-द्वयोः समानार्थयोः प्रकृष्टार्थवाचकत्वादत्यन्तसुषमा, एकान्तसुख-8 रूपोऽस्या एव प्रथमारक इत्यर्थः, स चासौ कालश्चेति, द्वितीयः सुषमाकालः, तृतीयः सुषमदुष्पमा, दुष्टशः समा अस्यामिति दुष्षमा, सुषमा चासौ दुष्पमा च सुषमदुष्पमा सुषमानुभावबहुलाऽल्पदुष्षमानुभावेत्यर्थः, चतुर्थों दुष्षमसुषमा| दुष्षमा चासौ सुषमा च दुष्षमसुषमा, दुष्षमानुभावबहुलाऽल्पसुषमानुभावेत्यर्थः, पञ्चमो दुषमा षष्ठो दुष्पमदुप्पमाकालः || ॥८९॥ निरुक्तं तु सुषमसुषमावत् , एवमुत्सप्पिणीसूत्रमपि भाव्यं, परं पडपि काला व्यत्ययेन भाव्याः, यश्चावसर्पिण्या षष्ठः कालो दुष्षमदुष्षमाख्यः स एवात्र प्रथमो यावत् सुषमसुषमाकालः षष्ठ इति । अथ द्विविधस्यापि कालस्य परिमाणं ।
Jain Education Intel
For Private sPersonal use Only