________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
॥ ८८ ॥
Jain Education Int
यावत् सहस्रपत्राणि ऋषभकूटप्रभाणि - ऋषभकूटाकाराणि ऋषभकूटवर्णानि तथा ऋषभकूटवर्णस्येव आभा - प्रतिभासो येषां तानि ऋषभकूटवर्णाभानि ततस्तानि तद्राकारत्वात् तद्वर्णत्वात् तद्वर्णसादृश्याश्च ऋषभकूटानीति प्रसिद्धानि, तद्योगादेषपर्वतोऽपि ऋषभकूटः, उभयेषामपि नानामनादिकालप्रवृत्तोऽयं व्यवहार इति नेतरेतराश्रयदोषप्रसङ्गः, एवमन्यत्रापि परिभावनीयं, प्रकारान्तरेणापि नामनिमित्तमाह- 'उसमे अ' इत्यादि, ऋषभश्चात्र देवो महर्द्धिकः, अत्र यावत्करणात् 'महज्जुईए जाव उसहकूडस्स उसहाए रायहाणीए अण्णेसिं च बहूणं देवाण य देवीण य आहेवचं जाव दिबाई भोगभोगाईं भुंजमाणे विहरइ, से एएणद्वेणं एवं बुम्बइ उसहकूडपवए २' इति पर्यन्तः सूत्रपाठो ज्ञेयः, | अत्र व्याख्या प्राग्वत् । 'दाहिणे णं' इत्यादि, राजधानी ऋषभदेवस्य ऋषभा नाम्नी मन्दरस्य पर्वतस्य दक्षिणतस्तथैव वाच्या यथा विजयदेवस्य प्रागुक्ता, अविशेषितं विशेषरहितं क्रियाविशेषणमेतत् अस्या विजयायाः राजधान्याश्च नामतोऽन्तरं न त्वस्मिन् वर्णके इति भावः ॥ इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानऐदंयुगीननराधिप| तिचक्रवर्त्तिसमानश्री अकञ्च रसुरत्राणप्रदत्तपाण्मासिकसर्वजन्तुजाता भयदानशत्रु अयादिकर मोचन स्फुरन्मानप्रदानप्रभृ|तिबहुमानसाम्प्रतविजयमान श्रीमत्तपागच्छाधिराज श्री हीर विजयसूरीश्वरपदपद्मोपासनाप्रवण महोपाध्याय श्री सकलचन्द्रगणिशिष्योपाध्याय श्री शान्तिचन्द्रगणिविरचितायां जम्बूद्वीपप्रज्ञप्तिवृत्ती प्रमेयरत्नमञ्जूषानायां भरत क्षेत्रखरूपनिरूपको नाम प्रथमो वक्षस्कारः ॥ १ ॥ ग्रंथाग्रं ३१६८/२५
For Private & Personal Use Only
१ वक्षस्कारे ऋषमकूटाविकारः सू.
१७
॥ ८८ ॥
Jainelibrary.org