SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Jain Education In बेदिकया सथैवेति-यथा सिद्धायतन कूटवर्णकः प्रागुक्तस्तथाऽत्रापि वक्तव्य इत्यर्थः कियत्पर्यन्त इत्याह- यावद्भवनंऋषभाख्यदेवस्थानं, स चायं 'एगेण य वणसंडेण सबओ समता संपरिक्खित्ते, उसहकूडस्स णं उपि बहुसमरमणिज्जे भूमिभागे पण्णत्ते से जहा णामए आलिंगपुक्खरेइ वा जाव वाणमंतरा जाव विहरंति, तस्स णं बहुसमरमणिज्जरस भूमिभागस्स बहुमज्झदेसभागे महं एगे भवणे पण्णत्ते' इति, अत्र व्याख्या पूर्ववत् भवनमानं साक्षादेव सूत्रे दर्शयति-क्रोशमायामेनार्द्धक्रोशं विष्कम्भेन देशोनं क्रोशं चत्वारिंशदधिकचतुर्दश धनुःशत रूपमूलत्वेन यद्यपि भवनमायामापेक्षया किंश्चिन्यूनोच्छ्रायमानं भवति प्रासादस्तु आयामद्विगुणोच्छ्राय इति श्रीज्ञाताधमकथाङ्गवृत्त्यादौ भवनप्रासादयोर्विशेषो दृश्यते तथाप्यत्र तयोरेकार्थकत्वं ज्ञेयं, श्रीमलयगिरिसूरिभिः क्षेत्रसमासवृत्ती "एतेषां ऋषभकूटानामुपरि प्रत्येकमेकैकः प्रासादावतंसकः, ते च प्रासादाः प्रत्येकमेकं क्रोशमायामतोऽर्द्धक्रोशं विष्कम्भतो देशोनं क्रोशमुञ्चत्वेने” त्यत्रो भव| मतुल्यप्रमाणतया ऋषभकूटेषु प्रासादानामभिधानादिति, अर्थो नामान्वर्थ ऋषभकूटस्य तथैवेति यथा जीवाभिगमादौ यमकादीनां पर्वतानामुक्तस्तथात्रापि औचित्येन वक्तव्यः, तदभिलापसूत्रं तु 'उप्पलाणी' त्यादिना सूचितं तदनुसारेणेदं 'से केणद्वेणं भंते ! एवं बुच्चइ - उसहकूडपवए २ १, गोअमा ! उसहकूडपवए खुड्डासु खुड्डियासु बावीसु पुक्खरिणीसु जांव बिलपंतीसु बहूई उप्पलाई पउमाई जाव सहस्सपत्ताई उसहकूडप्पभाई उ सहकूडवण्णाभाई' इति, अत्र व्याख्याप्रश्नसूत्रं सुगमं, उत्तरसूत्रे ऋषभकूटपर्वते क्षुहासु क्षुल्लिकासु वापीषु पुष्करिणीषु यावद्विलपङ्क्षुि बहून्युत्पलानि पद्मानि For Private & Personal Use Only jainelibrary.org
SR No.600087
Book TitleJambudwip Pragnapati Namak Mupangam Part_1
Original Sutra AuthorN/A
AuthorShantichandra Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages768
LanguageSanskrit
ClassificationManuscript & agam_jambudwipapragnapti
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy