________________
श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः
1120 11
Jain Education In
पाठान्तरं वाचनाभेदस्तद्गतपरिमाणान्तरमाह-मूले द्वादश योजनानि विष्कम्भेन मध्येsष्ट योजनानि चिष्क्रम्भेन उपरि चत्वारि योजनानि विष्कम्भेन, अत्रापि विष्कम्भायामतः साधिकत्रिगुणं मूलमध्यान्तपरिधिमानं सूत्रोकं सुबोधं । अत्राह परः - एकस्य वस्तुनो विष्कम्भादिपरिमाणे द्वैरूप्यासम्भवेन प्रस्तुतग्रन्थस्य च सातिशयस्थविरप्रणीतत्वेन कथं नान्यतरनिर्णयः १, यदेकस्यापि ऋषभकूटपर्वतस्य मूलादावष्टादियोजनविस्तृतत्वादि पुनस्तत्रैवास्य द्वादशादियोजनविस्तृतत्वादीति, सत्यं, जिनभट्टारकाणां सर्वेषां क्षायिकज्ञानवतामेकमेव मतं मूलतः, पश्चात्तु कालान्तरेण विस्मृत्यादिनाऽयं वाचनाभेदः, यदुक्तं श्रीमलयगिरिसूरिभिज्योतिष्करण्डकवृत्तौ - “ इह स्कन्दिलाचार्यप्रवृ ( तिप) सौ दुष्पमानुभावतो दुर्भिक्षप्रवृत्त्या साधूनां पठनगुणनादिकं सर्वमप्यनेशत्, ततो दुर्भिक्षातिक्रमे सुभिक्षप्रवृत्ती द्वयोः संघमेलापकोऽभवत्, तद्यथा-एको वलभ्यामेको मथुरायां तत्र च सूत्रार्थसंघटने परस्परं वाचनाभेदो जातः, विस्मृतयोर्हि सूत्रार्थयोः स्मृत्वा २ संघटने भवत्यवश्यं वाचनाभेद" इत्यादि, ततोऽत्रापि दुष्करोऽन्यतरनिर्णयः द्वयोः | पक्षयोरुपस्थितयोरनतिशायिज्ञानिभिरनभिनिषिष्टमतिभिः प्रचचनाशातनाभीरुभिः पुण्यपुरुषैरिति न काचिदनुपपत्तिः, किन सैद्धान्तिकशिरोमणि पूज्य श्रीजिन भद्रगणिक्षमाश्रमणप्रणीतक्षेत्रसमाससूत्रे उत्तरमतमेव दर्शितं यथा - ' सबेवि | उ सहकूडा उषिद्धा अट्ठजोयणे हुंति । बारस अट्ठ अ चउरो मूले मझुवरि विच्छिण्णा ॥ १ ॥" "मूले विच्छिण्ण' | इत्यादि शेषवर्णकः प्राग्वत् । अथास्य पद्मवरवेदिकाद्याह - ' से णं एगाए' इत्यादि, स ऋषभकूटाद्रिरेकया पद्मवर
For Private & Personal Use Only
१ वक्षस्कारे ऋषभकूटाधिकारः सू. १७
॥ ८७ ॥
www.jainelibrary.org